________________
श्रीमहेन्द्रसूरिप्रबन्धः ।
२३९ तयोरुभावभूतां च पित्राशानिलयौ सुतौ । धर्मः शर्मश्च दुहिता गोमतीत्यभिधा तथा ॥२३५॥ धर्मः खनामतो वामः शठत्वादनयस्थितिः। पितुः संतापकृजज्ञे सूर्यस्येव शनैश्चरः॥ २३६॥ स पित्रोक्तो धनं वत्स जीविकायै समर्जय । मुधा न लभ्यते धान्यं तत्ते जठरपूरकम् ॥ २३७॥ निष्कलत्वात्ततो नीचसंसर्गात्पाठवैरतः। सर्वोपायपरिभ्रष्टोऽभूदिक्षुक्षेत्ररक्षकः ॥ २३८ ॥ तत्र श्रीक्षेत्रपालोस्ति न्यग्रोधाधः सदैवतः। तदर्चानिरतो धर्मः सदासीद्भक्तिबंधुरः॥२३९ ॥ स च स्वस्वामिनो गेहे गतः क्वचन पर्वणि । भुंश्वात्रेति तदुक्तः सन् प्रोवाच प्रकटाक्षरम् ॥ २४०॥ न वल्भे क्षेत्रपालाची विनाहं प्रलयपि हि । क्षेत्रं ययौ ततोऽभ्यर्च्य तमूों यावदास्थितः॥२४१ ॥ तावदैक्षिष्ट नग्नां स योगिनीं तदृतेर्बहिः। क्षेत्रपालप्रसादेन शक्तिं मूर्तिमतीमिव ॥ २४२॥ तया चेक्षुलतामेकां प्रार्थितेनातिभक्तिना। तयुग्मं रससर्वस्वपूर्ण तस्याः समाय॑त ॥ २४३॥ तदास्वादप्रमोदेन सप्रसादाथ सावदत् ।। किं त्वं घृणायसे वत्स नवासोप्यवदत्ततः॥२४४॥ न घृणाये महामाये सा ततः पुनराह च । व्यादेहि वचनं तन तच्चक्रे सादरं वचः॥२४५॥ सा च तद्रसगंडूषं सुधावत्तन्मुखेऽक्षिपत् । हस्तं तन्मस्तके प्रादादायातस्य वृतेर्बहिः ॥२४६॥ तिरोधत्त क्षणेनैव सा देवी च गिरां ततः। विमुच्य स च तत्सर्व तस्मानिरगमद्रुतम् ॥ २४७ ॥ शनैर्गच्छन् पुरः प्राप पूर्वगंगातटं ततः।
अचिंतितमवादीच्च काव्यं सारस्वतोदयात् ॥ २४८॥ तथाहि-एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः
संत्रासं जनयंति विध्यभिदुरा वारा प्रवाहाः पुरः। हेलोद्वतितनर्तितप्रतिहतव्यावर्तितप्रेरित
त्यक्तस्वीकृतनिद्भुतप्रकटितप्रोद्भूततीरदुमाः ॥ २४९ ॥ १H सुंद. २ H. ल्मे. ३ H. विदितं.