________________
२४०
प्रभावकचरिते तत उत्तीर्य नावासौ नगरांतः समागमत् । निजावासं जनन्या च स्नेहादस्पर्शि हस्तयोः॥ २५०॥ अद्योत्सूरे कथं प्रागा इति पित्रोदितस्तथा। लसता सोऽनुजेनापि शिरसा हृदि पस्पृशे ॥ २५१ ॥ जामिर्गद्गदशब्दात्तं भ्रातीतः पुनःपुनः। सर्वानप्यवमन्यासौ रूक्षाक्षरमथोऽवदत् ॥ २५२॥ मातर्मा स्पृश मास्पृश त्वमपि मे मा तात तृप्तिं कृथाः भ्रातः किं भजसे वृथा भगिनि किं निःकारणं रोदिषि । निःशंकं मदिरां पिबंति नृपलं खादंति ये निर्दया चंडालीमपि यांति निघृणतया ते हन्त कौला वयम् ॥२५३॥ इत्युक्त्वा निर्ययौ गेहात्त्यक्त्वा स्वस्नेहमंजसा । अवंतिदेशसारा स धारां प्राप पुरी ततः॥२५४॥ स राजमंदिरद्वारि पत्रालंबं प्रदत्तवान् ।
काव्यान्यमूनि चालेखीत्तत्र मानाद्रिमूर्द्धगः ॥२५५ ॥ तद्यथा-शंभुर्गौडमहामहीप्रकटके धारानगर्या द्विजो
विष्णुर्भट्टिअमंडले पशुपतिः श्रीकन्यकुब्जे जितः। येनान्येऽपि जडीकृताः कतिपये जन्यानिले वादिनः सोऽयं द्वारि समागतः क्षितिपते धर्मः स्वयं तिष्ठति ॥२५६॥ यः कोपि पंडितंमन्यः पृथिव्यां दर्शनेष्वपि। तर्कलक्षणसाहित्योपनिषत्सु वदत्वसौ ॥२५७ ॥ अथ श्रीभोजभूपालपुरः संगत्य पर्षदम्।।
तृणाय मन्यमानोऽसौ साहंकारां गिरं जगौ ॥ २५८॥ गलत्विदानि चिरकालसेवितो मनीषिणामप्रतिमल्लतामदः। उपस्थिता सेयमपूर्वरूपिणी तपोधनाकारधरा सरस्वती ॥ २५९ ॥
क्षितिप तव समक्षं बाहुरुर्वीकृतो मे
वदतु वदतु वादी विद्यते यस्य शक्तिः। मयि वदति वितंडावादजल्पप्रवीणे
जलधिवलयमध्ये नास्ति कश्चिद्विपश्चित् ॥ २६०॥ हेमाद्रेर्बलवत्प्रमाणपटुता ताय॑स्य पक्षो दृढः
शैलानां प्रतिवादिता दिविषदां पात्रावलंबग्रहः । देवास्यैव सरस्वतीविलसितं किंवा बहु बमहे
धर्म संचरति क्षितौ कविवुधख्यातिग्रहाणां यदि ॥२६१ ।। - १ D. व्रजेना. २ D. कपटके. ३ H P जल्पानिले. ४ H विपदा पात्रा० ५ H. देशास्य च...विशसितं.