________________
श्रीमहेन्द्रसूरिप्रबन्धः । २४१ बृहस्पतिस्तिष्ठतु मंदबुद्धिः पुरंदरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥२६२॥
आचार्योऽहं कविरहमहं वादिराट् पंडितोऽहं
दैवंज्ञोऽहं भिषगहमहं मांत्रिकस्तांत्रिकोहम् । राजन्नस्यां जलधिपरिखामेखलायामिलाया- .
माज्ञासिद्धः किमिह बहुना सिद्धसारस्वतोऽहम् ॥२३॥ इत्याडंबरकाव्यानि तस्य श्रुत्वा महाधियः। अर्वाग्दृशोऽभवन् सर्वे भूपालो व्यमृशत्ततः ॥२६४॥ पुंसा तेन विना पर्षच्छून्येव प्रतिभासते। स कथं पुनरागंता य एवमपमानितः॥ २६५॥. पुनः प्राप्यः कथंचित्स्यात्तदा प्रतिविधास्यते।। एवं विचित्य सर्वत्राप्रैषीद्विश्वास्यपूरुषान् ॥ २६६॥ शोधितः सर्वदेशेषु तेषामेके तमाप्नुवन् । मरुमंडलमध्यस्थे पुरे सत्यपुराभिधे ॥ २६७॥ तैश्च वैनयिकीभिः स वाणीभिस्तत्र सांत्वितः। आदासीन्ये स्थितः प्राह नायास्ये तीर्थसेव्यहम् ॥ २६८॥ तैर्विज्ञप्ते यथावृत्ते भूपः पुनरचीकथत् । ततोदासीनताभासं वैचोसावखरप्रियम् ॥ २६९ ॥ श्रीमुंजस्य महीभर्तुः प्रतिपन्नसुतो भवान् । - ज्येष्ठोऽहं तु कनिष्ठोस्मि तत्कि गण्यं लघोर्वचः॥२७० ॥ पुरा ज्यायान्महाराजस्त्वामुत्संगोपवेशितम् । प्राहेति विरुदं तेऽस्तु श्रीकूर्चालसरस्वती ॥ २७१ ॥ त्यक्त्वा वयं त्वया वृद्धा राज्यमाप्ताश्च भाग्यतः। जये पराजये वाप्यवंतिदेशः स्थलं तव ॥ २७२ ॥ ततो मत्प्रियहेतोस्त्वमागच्छ गच्छ माथवा । जित्वा धारां त्वयं कौलः परदेशी प्रयास्यति ॥ २७३ ॥ तत्ते रूपं विरूपं वा जानासि स्वयमेव तत् । अतःपरं प्रवक्तुं न सांप्रतं नहि बुझ्यते ॥ २७४॥ प्राकृतोऽपि स्वयं ज्ञानं कुरुते नेतरत्पुनः। किं पुनस्त्वं महाविद्वांस्तद्यथारुचितं कुरु ॥ २७५ ॥ धनपाल इति श्रुत्वा स्वभूमेः पक्षपाततः। तरसागात्ततो ज्ञात्वा राजाभिमुखमागमत् ॥ २७६॥ दृष्टे च पादचारेण भूपं संगम्य धीनिधिम् । दृढमाश्लिष्य चावादीत्क्षमस्वाविनयं मम ॥ २७७॥
१ P D सर्वज्ञो० २. P भासं वचो सा. H. भावं वाचो सावस्वर०
21