________________
२४२
प्रभावकचरिते
धनपालस्ततः साश्रुरवादीद्राह्मणोऽप्यहम् । निःस्पृहो जैनलिंगश्चावश्यं तद्रतसस्पृहः ॥ २७८ ॥ मयि मोहो महाराज विलंबयति मामिह । भवेन्मानापमानो हि नादासीनचेतसि ॥ २७९ ॥ अथ राजाह मे खेदो नाणुरप्यस्त्यसौ तव । त्वयि जीवति भोजस्य सभा यत्परिभूयते ॥ २८०॥ पराभवस्तवैवायमितिश्रुत्वा कृतिप्रभुः। प्राह मा खिद्यतां भिक्षुरक्लेशाजेष्यते प्रगे ॥२८१॥ श्रुत्वेति हृदये तुष्टो ययौ श्रीभोजभूपतिः। विद्वानपि निजं वेश्म वेषं त्यक्त्वा पुनर्ययौ ॥ २८२॥ सन्मार्जनातिगे गेहे शशकाखुकृतैर्बिलैः। दृश्यनिःसंख्यवल्मीकदुर्गमे प्राविशत्ततः ॥ २८३॥ राजा सौधे गतः प्रातः पृष्ठो भूपेन वेश्मनः।
शुद्धिं विद्वत्प्रभुः प्राह श्रूयतां सूनृतं वचः ॥ २८४ ॥ तच्चेदं-पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ २८५॥ राज्ञा धर्मस्तदाहूत आस्थाने स्वःसभोपमे । श्रूयतां धनपालोऽयमाययौ वादिदर्पहृत् ॥ २८६ ॥ धर्मोघच्छित्तपं विज्ञं पूर्व परिचितं तदा।। दृष्वा काव्यमदोऽवादीत्तदावर्जनगर्भितम् ॥ २८७॥
श्रीछित्तपे कर्दमराजशिष्ये सभ्ये सभाभर्तरि भोजराजे । सारस्वते स्त्रोतसि मे प्लवंतां पलालकल्पा धनपालवाचः ॥२८८ ॥
धनपेति नृपस्यामंत्रणे मे मम तद्गिरः। आलवाचः प्लवंतां हि सिद्धसारखते रे? ॥ २८९ ॥ इति भूपालमित्रेण शब्दखंडनया तया । अस्यैव प्रतिपक्षार्थेऽक्षरैस्तैरेव जल्पितः ॥ २९० ॥ समस्यामर्पयामास सिद्धसारस्वतः कविः। धर्मस्तां च पुपूरेऽसौ वारानष्टोत्तरं शतम् ॥ २९१ ॥ तासामेकापि निर्दोषा न विद्वच्चित्तहारिणी। पुपूरे चांत्यवेलायामित्थं तेन मनीषिणा ॥ २९२॥ इयं व्योमांभोधेस्तटमिव जवात्प्राप्य पतनं निशांतो विश्लिष्टा घनघटितकाष्ठा विघटते ॥ २९३ ॥
इति समस्या.
१H लिंगत्वा. २ P विरत्युक्तं. ३ H संमार्ज. ४ D. एलो. ५ D. रुरं H. क्लते ? ६ P. शिशानौ D शिशोनौविश्लिष्यद्.