________________
श्रीमहेन्द्रसूरिप्रबन्धः।
२४३ वणिग्वक्रानंदत्विर्षि शकुनिकोलाहलगणे । निराधारास्तारास्तदनु च निमजति मणयः ॥ २९४॥ अतिश्रुतिकटुत्वेन चंद्रास्तवर्णनेन च । न्यूनोक्तिदूषणाच्चापि साम्यैषापि मानिता ॥ २९५॥ ततो वज्रं समस्यायाः पतत्विति च सोऽवदत् । विलक्षो जयभग्नाशः स मिथ्याडंबरः कविः ॥ २९६ ॥ ततः श्रीधनपालेनापूरि विद्वन्मनोहरा । अनायासात्समस्येयं यतोऽस्यैतत्कियत्किल ॥ २९७ ॥ असावप्यामूलत्रुटितकरसंतानतनिकः प्रयात्यस्तं प्रस्तासितपट इव श्वेतकिरणः॥ २९८॥ भग्नो मग्नः पराभूतिवारिधौ बोधितस्ततः। . तरंडाद्धर्म उद्दभ्रे कवींद्रेणेति गाथया ॥ २९९ ॥ आसंसारं क इव पुणवेहिं पइदि यहगहियसारोवि । अजवि अभिन्नमुद्दोव्वजयइ वायापरिप्फदो ॥ ३००॥ ततः श्रीभोजराजोऽपि कृतीशानुमतस्तदा।
यच्छ धर्मस्य वित्तस्य लक्षं तेनेत्यवाद्यत ॥ ३०१॥ तद्यथां-ब्रह्मांडोदरकोटरं कियदिदं तत्रापि मृद्गोलकं
पृथ्वीमंडलसंज्ञकं कुपतयस्तत्राप्यमी कोटिशः। तत्रैके गुरुगर्वगद्गदगिरो विश्राणयंत्यार्थिनां हा हा हंत वयं तु वज्रकठिनास्तानेव याचेमहि ॥ ३०२॥ न ग्रहीष्ये ततो वित्तमसारकमशाश्वतम् । अभिमाने हृते जीवे पुरुषः शवसंनिभः ॥ ३०३॥ स आह कविरेकोऽपि धनपालो धियां निधिः। इति प्रतीतं मच्चित्ते बुधो नास्ति नु निश्चितम् ॥ ३०४॥ सविस्मयं ततः प्राह सिद्धसारस्वतः कविः। नास्तीति नोच्यते विद्वन् रत्नगर्भा वसुंधरा ॥ ३०५॥ अणहिल्लपुरे श्रीमान् शान्तिसूरिः कृतीप्रभुः। जैनः ख्यातत्रिभुवने बुधस्त्वमवलोकय ॥ ३०६॥ स्नेहाद्विसर्जितो राज्ञा वादीशेनाप्यसौ ततः। विजये तस्य भग्नाशो व्यमृशन्मानसांतरा ॥ ३०७॥ अद्य पूर्व न केनापि स्खलितं वचनं मम ।
ईदृग्मम वचो हंता साक्षागाह्मी नतु द्विजः ॥ ३०८॥ १H क्रंदनविधि. २ H P. वरी.