________________
प्रभावकचरिते
प्रयाणं सुंदरं तस्माडुधालोकमिषादतः । ध्यात्वेति गुर्जरं देशं प्रति प्रस्थानमातनोत् ॥ ३०९ ॥ प्रातः संसदि भूपालस्तमाह्वस्त विशारदम् । नास्तीति च परिज्ञाते धनपालः कविर्जगौ ॥ ३१० ॥ धर्मो जयति नाधर्म इत्यलीकीकृतं वचः । इदं तु सत्यतां नीतं धर्मस्य त्वरिता गतिः ॥ ३११ ॥ राजा प्राह यथा जीवं विनांगेऽवयवान्विते । सत्यपि स्यान्न सामर्थ्यमुत्तरेऽपि परागतैः ॥ ३१२ ॥ तद्वदेकं विना मित्रं धनपालं कृतिप्रभुम् । मूके च धर्मसंवादे सभा तेन विनाकृता ॥ ३१३ ॥ तस्मात्स एव मत्पार्श्व शृंगारयतु सर्वदा | श्रुत्वेति धनपालोऽपि तुष्टः सन्मानतः प्रभोः ॥ ३१४ ॥ यथा स पत्तनं प्राप्तो जितः श्रीशांतिसूरिभिः । बुद्धास्ते मानितास्तेन तज्ज्ञेयं तच्चरित्रतः ॥ ३१५॥ इतश्च शोभनो विद्वान् सर्वग्रंथमहोदधिः । यमकान्विततीर्थेशस्तुतिं चक्रेऽतिभक्तितः ॥ ३१६॥ तदेकध्यानतः श्राद्ध त्रिर्भिक्षया ययौ । पृष्टः श्राविकया किंतु विरागे हेतुरत्र कः ॥ ३१७ ॥ स प्राह चित्तव्याक्षेपान जाने स्वगतागते । श्राविकः स्यात्परिज्ञाते गुरुभिः पृष्ट एष तत् ॥ ३९८ ॥ स प्राह नस्तुतिद्ध्याना जानेऽपश्यदहो गुरुः । तत्काव्यान्यथ हर्षेण प्राशंसत्तं चमत्कृतः ॥ ३१९ ॥ तदीयदृष्टसंगेन तत्क्षणं शोभनो ज्वरात् । आससाद परं लोकं संघस्याभाग्यतः कृती ॥ ३२० ॥ तासां जिनस्तुतीनां च सिद्धः सारस्वतः कविः । arai चकार सौंदर्य स्नेहं चित्ते वहन् दृढम् ॥ ३२९ ॥ आयुरंतं परिज्ञाय कोविदेशो ऽन्यदा नृपम् । आपृच्छत परं लोकं साधितुं गुरुसंनिधौ ॥ ३२२ ॥ श्रीमन्महेंद्रसूरीणां पादांभोजपुरस्सरम् । तनुं समलिखनेहिधर्म एव स्थितः सदा ॥ ३२३ ॥ उग्रेण तपसा शुद्धदेहः क्षिप्तांतरद्विषन् । सम्यक्त्वं निरतीचारं पालयन्नालये गुरोः ॥ ३२४ ॥
१ P गतौ. २ D किंत्वात्रि. P किंत्वत्रिरागा.
२४४