________________
श्रीसूराचार्यप्रबन्धः ।
२४५ तिष्ठनिर्याप्यमानस्य स्थविरैः श्रुतपारगैः। अन्ते देहं परित्यज्य श्रीसौधर्ममशिश्रयत् ॥ ३२५ ॥ युग्मम् । गुरवोऽपि तदा तस्य दृष्टा छेकत्वमद्भुतम् । लोकद्वयेऽपि संन्यासपूर्व तेऽपि दिवं ययौ ॥ ३२६ ॥ श्रीमन्महेंद्रगुरुदीक्षितशोभनस्य
प्रज्ञाधनस्य धनपालकवेश्च वृत्तम् । श्रीजैनधर्मदृढवासनया लभंतां
भव्यास्तमस्ततिहरं ननु बोधिरत्नम् ॥ ३२७॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभुः श्रीप्रभा
चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ वृत्तं महेंद्रप्रभोः . श्रीप्रद्युम्नमुनींदुना विशदितः शृंगो मुनींदुप्रम ॥ ३२८ ॥ श्रीदेवानंदसूरिर्दिशतु मदमसौ लक्षणाद्येन हैमादुद्धृत्यप्राज्ञहेतोर्विहितमभिनवं सिद्धसारस्वताख्यम् । शाब्दं शस्त्रं यदीयान्वयकनकगिरिस्थानकल्पद्रुमश्च श्रीमान्प्रद्युम्नसूरिर्विवदयति गिरं नः पदार्थ प्रदाता ॥ ३२९॥ इति श्रीमहेंद्रप्रभसूरिप्रबंधः ॥ ग्रंथ. ३६१ अ० २६ उभयं ४००८.
श्रीसूराचार्यप्रबन्धः ॥ सूराचार्यः श्रिये श्रीमान् सुमनःसंघपूजितः। यत्प्रज्ञया सुराचार्यो मात्राधिकतया जितः॥१॥ सूराचार्यप्रभोरत्र ब्रूमः किं गुणगौरवम् । येन श्रीभोजराजस्य सभा प्रतिभया जिता ॥ २॥ चरित्रं चित्रकृत्तस्य सुधीहृद्भित्तिषु स्थितम् । ज्ञात्वा वर्णाजवलं व्याख्यायते स्थैर्याय चेतसः ॥३॥ अणहिल्लपुरं नाम गुर्जरावनिमंडलम्। अस्ति प्रशस्तिवत्पूर्व भूपालनयपद्धतेः॥४॥ प्रतापाक्रांतराजन्यचक्रं चक्रेश्वरोपमः। . श्रीभीमभूपतिस्तत्राभवदुःशासनार्दनः॥५॥ शास्त्रशिक्षागुरोोणाचार्यः सत्याक्षतव्रतः। अस्ति क्षात्रकुलोत्पन्नो नरेंद्रस्यास्य मातुलः ॥६॥ तस्य संग्रामसिंहाण्यभ्रातुः पुत्रो महीपतिः।
महीपाल इति ख्यातः प्रज्ञाविजितवाक्पतिः॥७॥ १H. उभयं ४०८८. २ H. omits sts २-३.