________________
२४६
प्रभावकचरिते
तत्तातेऽस्तं गते दैवाद्वाल्य एव प्रभोः पुरः । तन्माता भ्रातृपुत्रं खं प्रशाधीति प्रभुं जगौ ॥ ८॥ निमित्तातिशयाज्ज्ञात्वा तं शासनविभूषकम् । आदराजगृहुर्भ्रातृजायां संतोपवाग्भरैः ॥९॥ शब्दशास्त्रप्रमाणानि साहित्यागमसंहिताः। अमिलन्स्वयमेवास्य साक्षिमात्रे गुरौ स्थिते ॥ १० ॥ स्नेहादेव गुरोः पार्श्वममुश्चन् जगृहे व्रतम् । खपट्टे स्थापयन्मंक्षु तादृशा नोचितांतिगाः ॥११॥ वार्त्तमानिकशास्त्रांभोरुहाभासनभानुमान् । जनाशानतमश्छेदी सूराचार्यः स विश्रुतः ॥ १२॥ अथ श्रीभोजराजस्य वाग्देवीकुलसनः । कलासिंधुमहासिंधोर्विदल्लीलामहौकसः ॥१३॥ प्रधाना आजग्मिवांसः श्रीभीमनृपपर्षदम् ।
गाथामेकामजल्पच्च निजनाथगुणोद्धृताम् ॥ १४ ॥ युग्मम् । तथाहि-हेलानिद्दलियगइंदकुंभपडियपयावपसरस्स ।
सीहस्समयणसमंनिदिग्गहो नेयसंधाणं ॥१५॥ हेलया तवज्ञाय तेषां सन्मानमादधे । आवासभुक्तिवृत्त्यायैर्भूपस्थानं च ते ययुः ॥ १६ ॥ गतेषु तेषु भूपालः स्वप्रधानानिहादिशत् । शोध्यः प्रत्युत्तरार्यायै विपश्चित्कश्चिद्भुतः॥१७॥ स्वस्वमत्यनुमानेन प्रत्यार्याः कविभिः कृताः। न चमत्कारिणी राज्ञस्तासामेकापि चाभवत् ॥ १८ ॥ सर्वदर्शनिशालासु चतुष्के चत्वरे त्रिके। हर्म्यचैत्येषु गच्छन्ति ततः प्रेक्षाकुतूहलात् ॥ १९ ॥ श्रीमद्गोविंदसूरीणां चैत्ये ते चान्यदाययुः। तदा पर्वणि कुत्रापि तत्रासीत्प्रेक्षणक्षणः ॥२०॥ अंगहारप्रकारैश्च त्रिपताकादिहस्तकैः। तत्र ननर्ति लास्येन तांडवेन च नर्तकी ॥ २१ ॥ आतोद्यतालसंवादसंपन्नविषमासनैः । श्रांताश्लक्ष्णोपलस्तंभं स्पर्श स्रक्षणवन्मृदुम् ॥ २२॥ आशिश्लेष नटीस्वेदहृतये पवनार्थिनी। तत्काठिन्यप्रकर्षस्य द्रावणायेव निर्भरम् ॥ २३ ॥ युग्मम् । १६ ता गिरः. २ D. सत्तम.