________________
श्रीसूराचार्यप्रबन्धः । व्यजिज्ञपन् विशिष्टाश्च श्रीगोविंदाय सूरये । इमामीहगवस्थानां वर्णयध्वं प्रभो स्फुटम् ॥ २४॥ सूराचार्य च तत्रस्थं तदुत्कीर्तनहेतवे ।
तं तदा दिदिशुः पूज्यास्तत्क्षणाच्चाथ सोऽब्रवीत् ॥२५॥ तद्यथा-यत्कंकणाभरणकोमलबाहुवल्लि___ संगात्कुरंगकदृशोर्नवयौवनायाः। न स्विद्यसि प्रचलसि प्रविकंपसे त्वं
तत्सत्यमेव दृषदा ननु निर्मितोऽसि ॥२६॥ तत्कालं ते नृपायेदं गत्वा हृष्टा व्यजिज्ञपत् । गोविंदाचार्यपार्श्वेऽस्ति कविः प्रत्युत्तरक्षमः॥२७॥ भूपालः प्राह सौहार्दभूमिः सूरिरसौ हि नः । समानयत सन्मान्यं सकवित्वं गुरुं ततः ॥२८॥ आदेशानंतरं ते श्रीगोविंदस्याश्रयं ययुः। आजूहवंस्ततःसोपि भूपसंसदमाययौ ॥२९॥ सूराचार्य च पाच ऽस्य दृष्ट्वा भूपाप्रमोदभूः। मन्मातुलस्य पुत्रोऽसौ संभाव्यं सर्वमत्र तत् ॥ ३०॥ आशीर्वाद्योपविष्टस्य सूरि पार्ह आसने श्रीभोजप्रहितां गाथां विद्वद्भिः श्रावितस्ततः॥३१॥ तदनंतरमेवाथ सूराचार्य उवाच च।
कोऽवकाशो विलंबस्य तादृक्पुण्योदये सति ॥३२॥ तथाहि-अंधय सुयाणकालोभीमोपुहवीमिम्भिइ विहिणा ।
जेण संयपि न गणियं का गणणा तुज्श इक्कस्स ॥ ३३ ॥ इत्यर्थ भीमभूपालः श्रुत्वा रोमांचकंचुकी। धाराधिपप्रधानानां हृतं प्राजीहयत्करे ॥३४॥ श्रीभोजस्तां प्रवाच्य विममर्शति चेतसि । ईदृक्तविभवो देशः स कथं परिभूयते ॥ ३५॥ सूरिः श्रीभीमराजेन सन्मान्येन व्यसृज्यत । किं कुर्यात् त्वयि पार्श्वस्थे श्रीभोजे विदुषां निधिः ॥ ३६ ॥ अन्यदा गुरुभिः शिष्योऽध्यापनेऽसौ न्ययोज्यत । कारयति गुणा वप्रप्रतिष्ठां पुरुषाकृतेः ॥ ३७॥ कुशाग्रीयमतिः शास्त्ररहस्यानि पटुप्रभुः । तथा दिशति जानंत्येकशः श्रुत्वापि ते यथा ॥ ३८ ॥ तारुण्यवयसा प्रज्ञापाटवेनाधिकेन च । किंचिदृप्तः स्वशिष्याणां कुप्यत्यनवगच्छताम् ॥ ३९ ॥