________________
२४८
प्रभावकचरिते
ततस्तान् शिक्षयन्नेकां रजोहरणदंडिकाम् । नित्यं भनक्ति कोपारिस्तादृशानपि गंजयेत् ॥ ४०॥ एकदा त्ववलेपोऽपि स्वजातीयसहायताम् । कर्तुमत्राययौ स्वीयानुपदीनोतको भवेत् ? ॥४१॥ वैयावृत्त्याकरं स्वीयं खिन्नस्तन्नित्यभंगतः। आदिशइंडिकालोहा कार्यास्माकं रजोहतौ ॥४२॥ छात्रा वित्रासमापन्नाः खिन्नचित्ततनूभृतः। उपाध्यायात्कथंचित्ते वासरं निरयापयन् ॥४३॥ आवश्यकविधेः शास्त्रगुणनाच्चानु ते ततः। अर्द्धरात्रिककालस्यावसरेऽपि विनिद्रकाः॥४४॥ ज्येष्ठप्रभुक्रमांभोजसेवाहेवाकिनस्ततः। नत्वा व्यजिज्ञपन्विश्रमयंतश्चरणद्वयम् ॥ ४५॥ शरण्यं शरणायाता अश्रांतस्रवदश्रवः । शिरोभेदमृते भीता उपाध्यायस्य चेष्टितम् ॥ ४६॥
त्रिभिर्विशेषकम्. श्रुत्वा प्रभुभिरादिष्टं वत्साः स्वच्छाशयस्य तु । एष वोऽह्नाय पाठाय त्वरते नतु वैरतः॥४७॥ यदयोमयदंडस्य सोर्थी तद्धि विरुध्यते । शिक्षिष्यते तथायं वो नाचरेद्विद्रवं यथा ॥४८॥ इत्थमाश्वासितास्ते च स्वस्वस्थानण्वसूषुपन् । सूराचार्योऽपि तत्रागाच्छुश्रूषाहेतवे प्रभोः ॥४९॥ ददे कृतककोपात्तैर्वदने नानुवंदना । अप्रसादे ततो हेतुं पप्रच्छाह प्रभुः पुनः ॥ ५० ॥ लोहदंडो यमस्यैवायुधं नहि चरित्रिणाम् । घटते हिंस्रवस्तु स्यात्तथैव तु परिग्रहे ॥५१॥ आद्योऽपि कोऽप्युपाध्यायः पाठको न शिशुबजे । अहो ते स्फुरिता प्रज्ञा पुंसां हृदयभेदिनी ॥५२॥ श्रुत्वेति व्यकुशच्छात्रवर्गादयमुपद्रवः। उत्तस्थे च प्रभोरग्रेऽवादीत्सविनयं वचः॥ ५३॥ पूज्यहस्तसरोजेन मौलौ किं व्यलसन्मम । एवं निस्त्रिंशता शंका मयि यूयं व्यधत्त किम् ॥ ५४ ॥ काष्ठदंडिकया देहे प्रहारो दीयते यथा । न तथा लोहदंडेन ज्ञापनैव विधीयते ॥ ५५॥
१ D. 'मोनको'. निस्पृशता.