________________
श्रीसूराचार्यप्रबन्धः ।
२४९ मद्गुणा यद्यमीषां स्युरिति चिंता ममाभवत् । घेतपूर्णाश्चपलकैर्न स्युः सत्यमिदं वचः॥५६॥ अथ ज्यष्ठप्रभुः प्राह सर्वेषां गुणसंहतिः। कोट्यंशेनापि नास्त्यत्र को मदस्तहुणेषु भो ॥ ५७ ॥ इत्याकर्ण्य ततः सूराचार्यप्राज्यमतिस्थितिः । प्राह नाहं कृतोहं को गर्वो ऽनतिशयस्य मे ॥ ५८ ॥ अभिसंधिर्ममायं तु चेन्मया पाठिता अमी। व्यहृत्य परदेशेषु जायंते वादिजित्वराः ॥ ५९॥ पूज्यानां किरणा भूत्वा जनजाड्यहृतौ ननु । युष्माकं सोऽपि शृंगार उन्नतिर्जिनशासने ॥ ६०॥ गुरवः प्राहुरुत्तानमते बालेषु का कथा। किमागच्छसि लग्नस्त्वं कृतभोजसभाजयः॥६१॥ श्रुत्वेत्याह स चादेशः प्रमाणं प्रभुसंमितः। आदास्ये विकृतीः सर्वाः कृत्वादेशममुं प्रभोः ॥ ६२ ॥ इत्युक्त्वा निजसंस्तारेऽक्षिपत्लेक्षणं ततः। सामर्षः सूरिशार्दूलः शार्दूलः श्रस्तफालवत् ॥ ६३ ॥ प्रातः कृत्वा त्ववादीत्सोऽनध्यायोद्यास्तु पाठने । शिशुत्वाजहृषुः शिष्या महोत्सव इवागते ॥ ६४॥ मध्याह्ने शुद्धमाहारमानीय यतिमंडले। .. मिलिते सूरसूरि तमाह्वाययत सहरुः ॥६५॥ आययौ परिविष्टे स गृह्णाति विकृति नहि । अनुनीतोऽपि गीतार्थः पूज्यैरप्युदिते दृढम् ॥६६॥ अमुञ्चन्नाग्रहं संघे नाप्युक्ते इदमभ्यधात् । मम प्रतिश्रवो हंता नाश्रवो मोच्यतां पुनः ॥ ६७॥ भणिष्यथाथ चेत्किचित्तन्ममानशनं ध्रुवम् । ततः संवाहयामास गीताथैः सह साधुभिः ॥ ६८॥ तत उत्संगमारोप्य शिशिक्षे तैरसौ सुधीः। परदेशे विहर्ता च वत्स भूयात्सचेतनः॥६९॥ शास्त्रं वंशो जातिप्रज्ञाकुलमा(लानणु)संयमाः। संति जयिनश्च यमा नियमास्तथापि यौवनमविश्वास्यम्॥७०॥ इति पूज्योपदेशश्रीशंगारैः स तरंगितः । मानयन स्वान्यदेशीयलब्धवस्तपस्विनः ॥ ७१ ॥ ततः श्रीभीमभूपालपृच्छायै राजसंसदम्।
संप्राप गुर्वनुज्ञातो राज्ञां ज्ञातः पुरापि यः॥ ७२॥ १ H. मृद्गु०..२ H. मृतप्० ३ H. ननिशथस्य.