________________
२५०
प्रभावकचरिते
सुवर्णमणिमाणिक्यमये पीठे च भूपतिः । न्यवेशयहुधं बंधुं हेमात्यसौरभाद्भुतम् ॥ ७३ ॥ तदा च मालवाधीशविशिष्टा पुनराययुः। खरूपं निजनाथस्य भूपालाय व्यजिज्ञपन् ॥ ७४ ॥ देव त्वद्विदुषां प्रज्ञाप्रातिभै रंजितो नृपः। श्रीभोजः सम्यगुत्कंठां तेषु धारयते प्रभुः ॥ ७५ ॥ ततः प्रहिणुत प्रेक्षादक्षनाथ प्रसद्य तत्। अन्योन्यं कौतुकं विद्वद्भूभृतां विद्यते यथा ॥ ७६ ॥ राजा प्राह महाविद्वानास्ते मद्धांधवो नवः । परदेशे कथं नाम प्रस्थाप्योऽसौ स्वजीववत् ॥ ७७ ॥ प्रतिपत्तिं ममेवास्य चेद्विधत्ते भवत्पतिः । प्रवेशादिषु मानं च स्वयं दत्ते तदस्तु तत् ॥ ७८ ॥ सूराचार्योऽपि दध्यौ च तोषाद्भाग्यमिहोदितम् । मम पूज्यप्रसादेन यत्तस्याह्वानमागमत् ॥ ७९ ॥ अथाह भूपते धाराधिनाथ कृतिना मया ।। गाथाया कविता दृष्टा तत्रोत्तरमदामहम् ॥ ८० ॥ शमिनां कौतुकं किं न विचित्रे जगति ध्रुवम् ।। श्रीमद्भोजस्य चित्रार्थ गम्यते तदनुज्ञया ॥ ८१ ॥ राजाह तत्र मद्भाता त्वं किं तं वर्णयिष्यसि । स प्राहाहं मुनिभूपं कुतो हेतोः स्तुवे ततः॥ ८२॥ ऊरीकृते प्रधानैश्च तत्र मालवभूपतेः। प्रयाणायानुजज्ञे तं विशेशं भीमभूपतिः ॥ ८३ ॥ गजमेकं ततः प्रेषीत्सप्तीनां शतपंचकम् । पदातीनां सहस्रं च संबंधौ भक्तिनिर्भरैः॥ ८४ ॥ शुभे मुहूर्ते नक्षत्रवारग्रहबलान्विते । चरे लग्ने ग्रहे क्रूरे तत्रस्थे शुभवीक्षिते ॥ ८५॥ गुरुसंघाभ्यनुज्ञातो बहिः प्रस्थानमातनोत् । पंचमेऽह्नि प्रयाणं च चके वक्रेश्वराकृतिः ॥८६॥ युग्मम् । ततः प्रेयाणकस्तोकमेवासौ गुर्जरावनेः। संधिक्षोणिमवाप्याथ ससज स च सजयः॥ ८७॥ धाराधिरूढप्रज्ञाभूर्धारापुरमवाप्तवान् । प्रधानश्च प्रतिज्ञातं ज्ञापितः स्वप्रभुस्ततः ॥ ८८ ॥ युतः सर्वर्द्धिसामग्रया सैन्यमान्यमदैन्यभूः। अवंतिनायकः सजयितास्याभिमुखोऽचलत् ॥ ८९ ॥ १ D हेमान्यत्. २ D संबद्धौ. ३ प्रयाणं क०४H Pततः..