________________
श्रीसूराचार्यप्रबन्धः।
२५१ दंताथलैः कलेविन्ध्य इव पर्यंतपर्वतैः। रथैर्ध्वनिप्रथैरभैरदभैरभ्रवड्यभात् ॥ ९०॥ शोभमानो वराश्वीयैः कल्लोलैरिव वारिधिः। पदातिराजभिाजद्राजा राजेव तारकैः॥९॥ त्रिभिर्विशेषकम् राजा मान्योपरोधेन व्रताचारव्यतिक्रमे । प्रायश्चित्तं चिकीर्षुश्चित्ते सूरिरारूढवान्गजम् ॥ ९२॥ दृग्गोचरे करिस्कंधात्तावुत्तीर्य स्थितौ भुवि । राजा च मुनिराजश्च मिलितो भ्रातराविव ॥९३॥ देशागतमहाविद्वदुचितं नृपकोशतः। प्रवालकमयं पढें तध्यक्षः समानयत् ॥ ९४॥ नियुक्तैश्चाथ तैः स्थूलवेष्टनेभ्यो विवेष्ट्य च । कंबिकाहस्तमानेन दैर्ध्यविस्तारयोः समः ॥ ९५॥ अष्टांगुलोच्छ्रयः सूर्यबिंबवत्तेजसा दृशाम् । दुर्दशाः शुद्धभूपीठे व्यमुंचत नृपाज्ञया ॥९६॥ अत्राध्वमिति भूपालानुज्ञाताः प्रत्यलेखयन् । ते रजोहरणात्रि(त्र)स्त्वं तत्रोपविविशुस्ततः ॥९७ ॥ अथ श्रीभोज आह स्मो रणलोमालिपिच्छकान् । किंतु प्रमार्जितं रेणु जीवा चात्र न संति किम् ॥९८॥ उपविष्टस्ततः सूरिः कंपमानशरीरकः ।। राज्ञा पृष्टः कथं कंपो जशेऽथ प्राह सोऽप्यथ ॥ ९९ ॥ राजपत्नीविकाशस्त्रिहस्तान् वीक्ष्य बिभेम्यहम् । राशोचेऽसौ स्थिती राज्ञां सप्रहासौ व्रतस्थितिः ॥ १००॥ अस्त्वेवमिति राज्ञोक्ते सजैनीमाशिषं ददौ । भूपालायोत्तरस्थैयेहर्षिताय कलानिधिः ॥ १०१॥ हुत्वा मंत्री विधाता लवणमुडुगणं साध्य तेजः कृशानौ
धात्रीपात्रं विमोच्य द्विजनिनदमहामंत्रघोषेण यावत् । आदायेदं घरह कृषति मुहुरुषा शाकिनी ताम्रचूडध्वानं तावजयत्वं वसुमति सुमनोमंडले भोजराज ॥१०२॥ परस्परं प्रशंसाभिर्निर्गम्यकमपि क्षणम् । राज्ञा स्वमंदिरं प्राप सूरिः पुर्यंतरीयिवान् ॥ १०३॥ मध्यनगरि तत्रास्ति विहारोहारवक्षिते ।। जनाद्विज्ञाय तत्रायात्सूराचार्यः कैलानिधिः ॥ १०४॥ सुवर्णमणिमाणिक्यपूजाभिः प्रसरत्प्रभाः। प्रतिमा वीतरागाणां ववंदे भक्तिनिर्भरम् ॥ १०५॥
१D P मो. २ D. P. चार्यक.