________________
२५२
प्रभावकचरिते लुठत्पाठाकपाठाप्तिकर्मठा शठपंडिते (?)। प्रणष्टबठरे प्रायान्मठे निष्ठितकल्मषः॥१०६ ॥ तत्र चूडसरस्वत्याचार्योऽनार्यतमोर्यमा। अस्ति प्रशस्तिर्यस्यास्ति विश्वविद्वन्मुखे सदा ॥ १०७॥ सर्वाभिगमपूर्व च प्राणतस्तैः प्रभुर्मुदा । तच्छिष्याः प्रणमंतामुं सौवागतिकवाणयः ॥ १०८॥ तैस्तथातिथयो नैव गोचरे प्रहितास्तथा । आनीय शुद्धमाहारं भोजिता भक्तिपूर्वकम् ॥ १०९ ॥ साधम्मिकनृपश्राद्धकुशलप्रश्नकेलिभिः। अपराह्नेऽभवत्तेषां परितोषभरालघुः ॥ ११०॥ अवलेपश्च भूपस्य प्रभूतातिशयादभूत् । तदा कदाचिदंभोजादपि कीटः प्रजायते ॥ १११ ॥ असौ षडपि संमील्य दर्शनानि तदा भणन् । भवद्भिाम्यते लोकः पृथगाचारसंस्थितैः ॥ ११२ ॥ तस्मात्सर्वेऽपि संगत्य दर्शनस्य मनीषिणः। कुरुध्वमेकमेवेदं संदिहाम यथा नहि ॥ ११३ ॥ विज्ञप्तं मंत्रिमुख्यैस्तु भूपः प्राच्योऽपि कोऽपि नः । समर्थोऽपि विधातासीदीदृक्षस्येह कर्मणः ॥ ११४ ॥ भूपतिं प्राह किं कोऽपि परमारान्वये पुरा।। आसीत्स्वशक्तितो भोक्ता सगौडं दक्षिणापथम् ॥ ११५॥ तूष्णीकेष्विति विश्रुत्य तेषु भूपो निजैनरैः । समपिंडयदेकत्र वाटके तान् पशूनिव ॥ ११६॥ सहस्रसंख्यया तत्र पुंसः स्त्रीरपि चानयत् । भोक्तुं नादाच सर्वेषामैकमत्या चिकीर्षया ॥ ११७॥ अनादिसिद्धशास्त्रौघप्रमाणैश्च निजैनिजैः । गतिरेकः कथं तेषां धान्येष्वेको यथा रसः ॥ ११८ ॥ क्षुधाबाधापरीणामादैकमत्यं त्वजायत । जीवो निजः कथं रक्ष इति चिंतामहाज्वरे ॥ ११९ ॥ तन्मध्ये दर्शनस्थित्या सूराचार्योऽपि चागमत् । सर्वैरैक्येन सोऽभाणि सांत्वनापूर्वकं तदा ॥ १२०॥ भूपालः काल एवायं य एवं दर्शनबजे। ऐक्यबुद्धिं विधित्सुस्तन्न भूतं न भविष्यति ॥ १२१ ॥ भवतो गुर्जराच्छेकवाक्प्रपंचेन केनचित् ।
१H. ना.