________________
- श्रीसूराचार्यप्रबन्धः ।
२५३ निवर्तयध्वमेनं कुविकल्पादमुतो दृढात् ॥१२२॥ 'परं सहस्रलोकानां भवंतः प्राणदानतः। उपार्जयध्वमत्युग्रं पुण्यं यद्गणनातिगम् ॥ १२३॥ सूराचार्यस्ततः प्राहातिथीनां नः किमागतो। कार्य भवेन्महीशोऽपि न नः प्रतिवदेत्किमु ॥ १२४ ॥ परंतु दर्शनश्रेणिराराध्यानादिपद्धतिः। तदुक्तोपक्रमं किंचित्करिष्यामो विमोचकम् ॥ १२५ ॥ अमात्यपार्श्वतो भूपपुरतोऽख्यापयद्गुरुः। आयातयातमस्माकं नृपेण सहसाग्रतः॥१२६॥ परं दर्शनिलोकानां बहूनामनुकंपया। किंचिद्वदामि चेद्भूपोऽवधारयति तत्त्वतः॥ १२७॥ राजापि शीघ्रमायातु गूर्जरः कविकुंजरः। इत्युक्ते मंत्रिभिःसार्ध स ययौ राजमंदिरम् ॥ १२८ ॥ अवदद्भूपतेऽभ्यागतानामातिथ्यमद्भुतम् । उचितं विदधे सम्यक् भूप एव तपस्विनाम् ॥ १२९ ॥ परं ततः कथं कार्य दर्शनानि धृतानि यत् । तत्तु दूयेत तेनैव वयं यामो भुवं स्वकाम् ॥ १३० ॥ तत्रापि हि गताः किंतु स्वरूपं कथयाम हो । धारापुरश्च संस्थानं पृच्छामो भवदंतिके ॥१३१॥ राजाहाभ्यागतानां वो नाहं किमपि संमुखम् । भणाम्येषां तु पार्थक्ये हेतुं पृच्छामि निश्चितम् ॥ १३२॥ स्वरूपं मत्पुरो यूयं शृणुताव्यग्रचेतसः। चतुर्भिरधिकाशीतिः प्रासादानामिह स्थिताः॥१३३॥ चतुष्पथानि तत्संख्यानि च प्रत्येकमस्ति च । चतुर्विशतिरट्टानामेवं पुरि च सूत्रणा ॥ १३४ ॥ सूरिः प्राहैकमेकांतं कुरु किं बहुभिः कृतैः। एकत्र सर्व लभ्यत लोको भ्रमति नो यथा ॥ १३५ ॥ राजाऽवदत्पृथग्वस्त्वर्थिनामेकत्र मीलने । महाबाधा ततश्चके पृथर हट्टावली मया ॥१३६॥ इत्याकावदत्सूरि रिर्वतृत्वकेलिषु । विद्वानपि महाराज विचारयसि किं नहि ॥१३७॥ स्वकृतान्यपि हट्टानि भतं न क्षमसे यदि ।
अनादिदर्शनानि त्वं कथं ध्वस्तुं समुद्यतः ॥ १३८ ॥ १ H. तप० D. कूप. २ P. महि D. ये मयि. ३ P. अभानि D. अमानिन्व.
22