________________
२५४
प्रभावकचरिते
दयार्थी जैनमास्थेयाद्रसार्थी कौलदर्शनम् । वेदांश्च व्यवहारार्थी मुक्तयर्थी च निरंजनम् ॥ १३९ ॥ चिरप्ररूढचित्तस्थावलेपैः सकलो जनः । एकः कथं भवेत्तस्मान्महीपाल विचिंतय ॥ १४० ॥ श्रुत्वेति भ्रष्टकुग्राहावलेपो भूपतिस्तदा । संमान्य भोजयित्वा च दर्शनान्यमुचदृते ॥ १४१ ॥ अवस्थेयं भवद्भिश्च सांगत्याग्रहमाह्वयम् । इत्थं बहुमतो गच्छ निजं सूरिरुपाश्रयम् ॥ १४२ ॥ तत्र व्याकरणं श्रीमद्भोजराजविनिर्मितम् । तच्च विद्यामठे छात्रैः पठ्यतेऽहनिशं भृशम् ॥ १४३ ॥ मिलंति सुधियः सर्वे तत्र कारणमागमत् । तत्र प्रचलितः सूरिः श्रीमान् चूडसरखती ॥ १४४ ॥ सहिष्यामो वयमपि सुराचार्येण जल्पिते । गुर्जरावनिविद्वत्ता शंकया च न्यषेधितैः ॥ १४५ ॥ दर्शनार्थे परिश्रान्ता यूयमद्यावतिष्ठथ । सदोद्यतः पुनरसौ प्राह तत्प्रेक्षणोत्सुकः ॥ १४६ ॥ तारुण्ये कः श्रमो युष्मद्देशविद्वन्निरीक्षणे । कुतूहलाद्विहारो नः समागच्छाम एव तत् ॥ १४७ ॥ अथ तेऽप्यनुमन्तारः प्रतिषेधेन तान् सह । नीतवंतस्तदा पाठशालायां शंकितास्तदा ॥ १४८ ॥ उपाध्यायश्च तत्राहातिथयः कुत आययुः । ऊचे तत्र स्थिताचार्यैरणहिल्लपुरादिति ॥ १४९ ॥ विशेषसंभ्रमाच्चक्रे व्यापकः स्वागतादिकम् । उपवीविशदेषोपि प्रधानानि तद्वयम् ॥ १५० ॥ सूराचार्यस्ततः प्राह ग्रंथः कोऽत्र प्रवाच्यते । कृतिः श्रीभोजराजस्य शब्दशास्त्रं स चावदत् ॥ १५१ ॥ प्रोच्यतां तन्नमस्कार इत्युक्तेऽभ्यागतैर्बुधैः । उपाध्यायः सह छात्रैः पटुस्वरमुवाच तम् ॥ १५२ ॥ तद्यथा - चतुर्मुखमुखांभोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं शुद्धवर्णा सरस्वती ॥ १५३॥ सूराचार्यस्ततः प्राह किंचिदुत्प्रासगर्भितम् । एवं जातीयविद्वांसो देशेऽत्रैव न चान्यतः ॥ १५४ ॥ अस्माभिर्भारती पूर्वमश्रावि ब्रह्मचारिणी । कुमारी सांप्रतं तत्र व्यपदिष्टा वधूरिति ॥ १५५ ॥
१ D. P. शि (श) श्वत् .