________________
श्रीसूराचार्यप्रबन्धः।
२५५ चित्रमश्रुतपूर्व तदन्यत्पृच्छामि किंचन । मातुलस्य सुता गम्या यथास्ते दक्षिणापथे ॥ १५६ ॥ सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवद्देशे तथा गम्याऽनुजांगजवधूः कथम् ॥१५७ ॥ यद्वधूशब्दसामीप्ये मानसे रमतां मम । प्रयुक्तं तद्भवंत्येव देशाचाराः पृथग्विधाः ॥१५८॥ अनुत्तरं प्रतिहतश्चालयन्नन्यसंकथाः । कालं विलंबयामासेष्टानध्यायकृतादरः॥ १५९॥ संध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः। अपराह्नेतिवृत्तं स जगौ विस्मयकारकम् ॥ १६०॥ भूपश्च विस्मितः प्राह संभाव्यं गुर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहूय निश्चितम् ॥ १६१॥ तत्रस्थाचार्यपार्श्वे च भूपालः प्रैषयनरान् । आह्वातुमतिथिं तं च भक्तिपूर्व तमाह्वयत् ॥ १६२ ॥ ततश्चूडसरस्वत्याचार्येण सह स प्रभुः। ययौ श्रीभोजभूनाथसभां स्वर्गसभानिभाम् ॥ १६३॥ राज्ञा नृपांगणाग्रे च शिलैका निहिता तदा। गूर्जराने निजप्राणस्फूर्तिदर्शनहेतवे ॥ १६४ ॥ तत्र पूर्ण पुनश्छिद्रं प्रार विधाप्य विधाय च । तद्वर्णसमकल्केन तादृशोपि छलार्थिनः॥ १६५॥ युग्मम् । आगच्छन्तं तदालोक्य सूरीश्वरमिलापतिः। आकणे धनुराकृष्यामुचल्लक्षे दृशं दधन् ॥ १६६ ॥ सूराचार्यश्च सूक्ष्मक्षी कल्कालेपं तटस्थितम् । बाणाग्रोत्कीर्णमालोक्य गर्भार्थ काव्यमब्रवीत् ॥१६७॥ तथाहि । विद्धा विद्धा शिलेयं भवतु परमतः कामुर्कक्रीडितेन श्रीमत्पाषाणभेदव्यसनरसिकतां मुंच मुंच प्रसीद । वेधे कौतूहलं चेत्कुलशिखरिकुलं बाणलक्षीकरोषि ध्वस्ताधाराधरित्रीनृपतिलकतदायाति पातालमूलम्॥१६८॥ इत्थमद्भुतसामर्थ्यवर्णनात्तोषितो नृपः। अधृष्यप्रज्ञमेनं श्रीधनपालोपि बुद्धवान् ॥ १६९॥ व्यचिंतयच्च वुद्धिं च विज्ञानं भूपतेरियम्। गर्भितोक्तिरहो जैना जीयंते केन मेधया ॥ १७० ॥ निजाश्रयं ययौ श्रीमान् सूराचार्यों नृपार्चितः ।
राजा स्थानमथास्थाय समस्तविदुषो वदन् ॥ १७१ ॥ १D P. ते...यन् ।