________________
२५६
प्रभावकचरिते
गूर्जरोयं महाविद्वानाययौ श्वेतचीवरः। अनेन सार्ध कोपीह वादमुद्रां बिभर्तु वः ॥ १७२॥ पंडितानां सहस्रार्धमध्ये सर्वेप्यवाङ्मुखाः। भग्नास्तत्प्रतिघातेन घनगार्भका इव ॥ १७३ ॥ विलक्षो नृपतिः प्राह किं गेहे नर्दिनः खलु । स्वयं वृत्तिभुजोऽस्माकं विद्वजल्पा मुधा बुधाः ॥ १७४ तेषामेको महाप्राज्ञः प्रादान्मंत्रं प्रभो शृणु। मा वैलक्ष्यं प्रपद्येथा रत्नगर्भा वसुंधरा ॥ १७५॥ निर्जरा इव देहस्था गूर्जराः श्वेतभिक्षवः । दुर्जेयास्तदतो मंत्रसाध्यं कार्यमिदं प्रभो ॥ १७६॥ छात्रेः कोपि महाप्राज्ञ आषोडशसमाह्वयः। प्रमाणशास्त्रोपन्यासं पाठ्यतामशठः सुधीः ॥ १७७ ॥ श्रुत्वेति भूपतिस्तुष्टिपुष्टः पंडितवाक्यतः। अस्त्वेवमित्यवादीत्तत्त्वमेवैतत् कुरुष्व भो ॥ १७८ ॥ एकः पटुर्बटुः सौम्यः प्रज्ञावक्तृत्वशेवधिः।। तर्कशास्त्रसदझ्यासोपन्यासं पाठितस्ततः ॥ १७९ ॥ अतिव्यक्ताक्षरं तेनादायि पाठं गुरोः पुरः । एतद्विज्ञाप्य राजानं मुहूर्तः शोधितः शुभः॥१८० ॥ शापितं बादसूराय सूराचार्याय भूभुजा। समाहूय च वादाथै स्थापितोऽसौ वरासने ॥ १८१॥ पट्टवासोऽतिवसनश्छात्रः शृंगारितस्ततः । सुवर्णरत्नपुष्पाढ्याभरणैः शरणैः श्रियः ॥ १८२ ॥ स्वमंकं तं समारोप्य राजाह प्रतिवाद्यसौ। ततो जगाद वादींद्रः प्रकटाक्षरपद्धतिः ॥ १८३॥ क्षीरकंटः क्षीरगंधवक्रोपक्रिमवागसौ। यूनां न उचितो नैव समाने विग्रहः खलु ॥१८४॥ राजाह रभसा नायं बाल एवेति भाव्यताम्। शिशुरूपा ह्यसौ ब्राह्मी जितेऽस्मिन्मत्सभा जिता ॥ १८५॥ पूर्ववादो लघोरस्तु सूरिणोक्ते ततः शिशुः। यथालिखितपाठं च व्यक्तमस्खलिताक्षरम् ॥ १८६ ॥ अपदच्छेदवाक्यं तत् विशरारूविभक्तिकम् ।
शृण्वन्मेने ह्यसावर्थावगमो न विना वदेत् ॥ १८७॥ १P D. गण. D omits आययौ...तेन. २ Dd H . ३H, पुष्परत्ना. D P. यूयंन ...वासमानो.