________________
श्रीसूराचार्यप्रबन्धः ।
२५७
इत्येवं शंकया क्षुण्णं विमृशनिश्चिकाय च। पट्टिकापाठएवायमीदृशोऽत्र नहीतरत् ॥१८८॥ जल्पेद्यावद्रयेणासौ तावत्परुषशब्दतः। पाश्चात्यं तु पदं कूटं बभणे भवता हि भो ॥ १८९ ॥ पुनर्भणेति सप्तोक्ते रभसेति ततोऽवदत् । पट्टिकायां ममेदृक्षं लिखितं निश्चयो मम ॥ १९० ॥ सूराचार्य इति श्रुत्वा प्राह संतोषनिर्भरम् । यादृक् लक्षणशास्त्रादौ श्लोको वादोऽपि तादृशः ॥ १९१ ॥ तदापृच्छामहे श्रीमान् भोजभूपालपुंगवः। अदर्शि मालवों देशो मंडकाः खादिता अपि ॥ १९२ ।। इत्युक्त्वा प्रययौ सूरिर्मठं हतजितद्विषम् । लज्जामन्युभराक्रांतो राजास्थानं व्यसर्जयत् ॥ १९३॥ श्रीमान् चूडसरस्वत्याचार्यः प्राघुणमभ्यधात् । अस्माकं शासनोद्योतात्सुखं त्वन्मृत्युतोऽसुखम् ॥१९४॥ श्रीभोजराजः स्वसभाजेतारं हन्ति निश्चितम् । जये पराजये वापि न श्रेयः किमु कुर्महे ॥ १९५॥ सूराचार्यस्ततोऽवादीद्वीरधौरणिधूर्धरः। वं रक्षिष्येऽहमात्मानं भवद्भिर्मानुतप्यताम् ॥ १९६ ॥ तदा श्रीधनपालेन प्रेरितः कविचक्रिणा। पुरुषो गूर्जराचार्य प्रोचे स्वस्वामिवाचिकम् ॥ १९७॥ पूज्याश्च येन केनापि मद्वेश्मायांतु सत्वरम् । अविश्वास्यो नृपस्यास्य प्रसादो पि भयंकरः॥ १९८॥ मंडनं सर्वदेशानां भवाग विश्रुतः सुधीः। भाग्यातिशयतो मादृगजनैर्दुर्लभ एव यत् ॥ १९९॥ मद्दर्शनानन्तरं च विधेया कापि नाधृतिः। सुखेन गूर्जरं देशं प्रापयिष्यामि निश्चितम् ॥ २००॥ अहो जागर्ति भाग्यं वः साधूनां मितभाषिणाम् । प्रातः क्षणेऽश्ववारैस्तच्चैत्यं वाटमवेष्टयत ॥२०१॥ संतोषजयपत्रं वः प्रदास्यति नृपाग्रणी। विद्वांसमतिथिं प्रेषयध्वं विध्वस्तवादिनम् ॥ २०२॥ इति वास्तव्यसूरिं तेऽभ्ययुर्विधुरिताननम् । आयास्यतीति तानाह शुन्यतायातचेतनम् ॥ २०३ ॥ मध्याह्ने कर्कशे सूर्यतापात्कुंभे गुरौ तदा। कृतवेषपरावर्तो दाम दत्वा दृढं गते ॥२०४॥