________________
२५८
प्रभावकचरिते
तत्रत्यैकानगारेण प्रावृत्यासौ जरत्पटीम् । मलिनां निःसरंश्चैत्यद्वारेण जगदे भटैः ॥ २०५॥ युग्मम् । बहिः कथं तु निर्यासि मध्ये गच्छ सितांबरः। अर्पिते गुर्जरे सर्वे सर्वतो मुत्कला ध्रुवम् ॥ २०६ ॥ स च श्रुत्वा करालोकिर्विकरालमुखोऽवदत् । मध्ये सिंहासनासीनं भूपालमिव गर्वतः ॥२०७॥ कर्णे धृत्वा प्रभोरग्रे नयतास्माकवैरिणम् । जयपत्रमथाप्नोति यमपत्रमथापि वा ॥२०८॥ तृषाक्रांता वयं युष्मत्पुरवास्तव्यतां गताः। भवद्धर्मेण नीराय गच्छामोमुंचत द्रुतम् ॥ २०९ ॥ एकेन चाश्ववारेण कृपया मोचितोऽथ सः। मनीषिमौलिरत्नस्य गृहं प्रापापभीः प्रभुः ॥ २१० ॥ स चाह वाक्पथातीताच्छैकताने यतीश्वरः। यमदृष्टिपथादंतर्धाय मे दृक्पथे स्थितः॥ २११ ॥ अद्य ते जन्म मन्येहं गच्छस्तेऽद्य सुपुण्यकः।। यद्भवानागतो जैनशासनव्योमभास्करः ॥११२॥ कथमागा इदं पृष्टः सूराचार्यो यथा तथा । अभ्ययादिति च श्रुत्वा परमानंदमाप्तवान् ॥ ११३ ॥ भूमीग्रहे सावकाशेऽवस्थाप्यादरपूर्वकम् । शुद्धाहारेण तं भक्त्या प्रत्यलाभं यदुद्यतः ॥ २१४ ॥ ततस्तांबूलिकस्तोमं तत्र यातं निरीक्ष्य सः। अत्यादरेण संमान्य भोजनाच्छादनादिना ॥ २१५॥ ततश्चाभ्यर्थयामास तान्मम भ्रातरं स्वकम् । अणहिल्लपुरं यावत्परानयत निश्चितम् ॥ २१६ ॥ तेऽप्यूचुर्ब्राह्मणः पूज्यो राज्ञां ज्ञातो बुधाग्रणीः । तदादेशः प्रमाणं नः कार्यमावश्यकं ह्यदः ॥२१७॥ नाबानिवृतिराधेया न यामः सपरिच्छदम् । यानारोहेतरे भक्तौ निश्चितो वर्ततामसौ ॥ २१८ ॥ श्रीमता धनपालेन दीनाराणां शतं ददे। अंगीकरणतोऽमीषां रंगसंगतरंगिणा ॥ २१९ ॥ गुरवोऽल्लकमध्ये च गुप्तं कृत्वा गुरुं तदा । पर्याण्यवृषभान् शीघ्रं ते चेलुगूर्जरावनौ ॥ २२० ॥ १ H. तत्र चैका• D तत्रैत्ये०. २ D अर्जि०. ३ D त्मान..