________________
श्रीसूराचार्यप्रबन्धः ।
२५९
महीतटागतेन श्रीसूराचार्येण सहुरोः । विज्ञापितं नरेरात्मागमनं कौशलोत्तरम् ॥ २२१ ॥ इतश्च विविशुश्चैत्यमपराह्ने भटाः स्वयम् । साधुं स्थूलोदरं दृष्ट्वा सिंहासन्युपवेशितम् ॥ २२२॥ प्रधानवस्त्रसंवीतमुद्यन्मदकलाकृतिम् ।। एवमूचुनृपादेशानिर्गच्छत जिनालयात् ॥ २२३॥ युग्मम् ॥ मध्ये योत्र विलंबः सोदूखलेथातवंचना। . उत्थाय सोऽग्रतो भूत्वाऽश्ववारैः सह जग्मिवान् ॥ २२४ ॥ पार्थिवस्य पुरो भूत्वावतस्थे मौनमास्थितः। विलक्षेण ततो राज्ञा हायिका जल्पितास्तदा ॥ २२५॥ कोयं भवद्भिरानीतो जबे(ठ)रः स्थूलदेहभृत् । ततोसौ गूर्जरश्छेको भवतामग्रतो ननु ॥ २२६॥ अक्षिण रेणुं हि निक्षिप्य केनाप्यंधः कृतः कथम् । भवतां सदृशः कश्चिच्चेतनारहितो नहि ॥ २२७॥ तेऽप्यूचुर्नाथ नीरस्य वाहकं दुर्गतं मुनिम् । एकं मुक्त्वा न कस्यापि निर्गमोऽस्मत्पुरः प्रभोः ॥ २२८ ॥ भूप आह परावृत्य वेषं वः पश्यतां ययौ। विजित्य न सतां नान्यस्तं विनोत्पन्नबुद्धिमान् ॥ २२९॥ पुरस्थं प्राह राजा खमावासं गच्छ पुण्यतः।। मूर्खत्वं हि वरं श्लाध्यं येनास्मत्तोऽपि जीवितः॥ २३०॥ इत्यसौ प्रहितो राज्ञा मठे व्यावृत्य चाययौ। मूर्ध्न एव भ्रुवो नैवाक्षतवर्द्धनमुंडने ॥ २३१ ॥ इतः श्रीभीमभूपालः प्रजिघाय नरान्निजान् । आह्वायकान्निजभ्रातुर्मातुलो वृत्तिभिः सह ॥ २३२॥ स्वदेशे प्रकटो भूत्वा राजधानीमथाययुः। गुरवः संघसंवीताः स्वस्याभिमुखमागमत् ॥ २३३॥ राजा च सर्वसामग्र्या प्रतिपंथी च का शुभे। आचार्यः स्वगुरोः पादौ प्रेक्ष्य हीमानिवानमत् ॥ २३४॥ प्रत्यासन्नश्च तेषां स सर्वाभिगमपूर्वकम् । योगी चाष्टांगयोगेन प्रह्वोऽभिहितवान् वचः ॥ २३५॥ सफलाद्य गुरोराशा सफला मातुराशिषः। प्रसन्नाहक त्वमादृक्षे श्रीसंघस्य फलेग्रहिः ॥२३६॥
१ D वठरः २ D. वि.