________________
२६०
प्रभावकचरिते अविमृश्य विधायीव गतौ मालवके तदा । अक्षतोऽहमिहागच्छं यजित्वा भोजपर्षदम् ॥ २३७ ॥ युग्मम् तथान्तेवासिनोऽमी श्रीगुरुपादाग्रतो मम । क्षणं नाकथयिष्यंत शिक्षिष्यत न च प्रभुः ॥ २३८ ॥ बालोय यदि दर्पण न व्यधास्यं प्रतिश्रवम् । गुरुमस्तकहस्तस्य का प्रमाणमथोच्यते ॥ २३९ ॥ इत्याकर्ण्य प्रभुयॊणः शोणहद इव स्थिरः । उवाच वाचमाचारचारुचारित्रचंचुरः ॥२४०॥ एवं प्रतिश्रयं क्लीबदुष्करं विदधीत कः। निर्वाहयेत च श्रीमान् विना त्वामाप्तवाग्वरम् ॥ २४१ ॥ सगच्छसंघाश्च वयमाचानाम्लैरुपस्थिताः । आभवद्वदनालोकात् सम्यक्शासनदेवताम् ॥ २४२॥ सगद्गदमुदित्वैवं स बाढ़ परिषस्वजे । गुरुभिश्वाथ भूपोऽपि श्रीभीमः प्राह सादरम् ॥ २४३ ॥ मनीषी विनयी छेकस्तत्कालोत्पन्नबुद्धिमान् । त्वां विना दृश्यते नान्यस्तेजस्वी दृढवीर्यभूः ॥ २४४॥ श्रीभोजं छलयित्वा यत्तादृक्प्राज्ञपरिग्रहम् । आगत्याक्षतदेहस्त्वं मम तेजोऽभ्यवर्द्धयः॥ २४५ ॥ किंचित्पृच्छामि संदेहं नृपतिः ससुतो न वा। सूरसूरिरथ प्राह पयोवाहनिभध्वनिः॥ २४६॥ रसना में महाराज त्वां विना स्तौति नापरम् । मदुक्तस्य च काव्यस्य भावार्थ शृणु कौतुकात् ॥२४७॥ शिला विद्धा सती विद्धान्छिद्रे शरमुचां हि कः । विक्रमः कामुकक्रीडां मुंचत व्याजतः कृताम् ॥ २४८ ॥ व्यसने दृषदां भेदाद्भवतां पूर्वजो गिरिः। अर्बुदस्तस्य भेदे तु ध्वस्तधारा धरित्र्यपि ॥ २४९॥ पातालमूलं यातीयं शिक्षयेऽहमिति ब्रुवन् । अपि द्विषति सच्छिक्षा दातव्या शमजीवितैः ॥ २५० ॥ श्रीभीमः प्राह तच्छ्रुत्वा पुलकोद्भेदमेदुरः । मद्वंधुना जिते भोजे का मे चिंतास्ति तजये ॥ २५१ ॥ स्वसमीपे समारोप्य गजराजवरासने ।
सूराचार्यस्य भूपालः प्रवेशोत्सवमातनोत् ॥ २५२ ॥ १D. द्रोणि.