________________
अभयप्रबन्धः ।
अतीचारान् स विज्ञप्य गुरुपार्श्वे महामतिः । देशान्तरगतौ जातास्तपसाशोधयद्दृढम् ॥ २५३ ॥ युगादिनाथश्रीनेमिचरिताद्भुतकीर्तनात् । इतिवृत्तं द्विसंधानं व्यधात् स कविशेखरः ॥ २५४ ॥ यः पूर्व पिपठीः शिष्यवर्गस्तमिह सूरिराट् । सम्यग् निष्पाद्य वादद्रतया सममयोजयत् ॥ २५५ ॥ श्री द्रोणसूरिणां गत्या परलोके सुसाधिते । क्षितावक्षामचारित्रपवित्रः सूरिसद्गुरुः ॥ २५६ ॥ प्रभावनाभिः श्रीसंज्ञमुन्नमय्य श्रुतोदधिः । शिष्यान्निष्पाद्य संपाद्य जैनप्रवचनोन्नतिम् ॥ २५७ ॥ योग्यं सूरिपदे न्यस्य भारमत्र निवेश्य च । प्रायोपवेशनं पंचत्रिंशद्दिनमितं दधौ ॥ २५८ ॥ आत्मारामादरः सम्यग् योगत्रयनिरोधतः । श्री भीमभूपतेर्बंधुरुत्तमां गतिमाश्रयत् ॥ २५९ ॥
२६१
चतुर्भिः कलापकम् ।
श्रीसूराचार्यवृत्तं व्यरचि परिचितं वादविद्याविनोदक्षुभ्यद्वादिप्रवादं किमपि गुरुमुखादन्यतो वाप्य किंचित् । श्रेयो देयादमेयं जिनपतिवचनोद्योतनस्थैर्यहेतुः
सेतुर्जाड्यां बुराशेर्भवतु भवभृतामद्य विद्योद्यमाय ॥ २६० ॥ श्रीचंद्रप्रभसूरिपट्टसरसी हंसप्रभः श्रीप्रभा
चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीसूरसूरेः कथा
श्रीप्रयुनमुनींना विशदितः शृंगोऽयमष्टादशः ॥ २६१ ॥ इतिश्रीसूराचार्यप्रबन्धः ॥ ग्रंथ० २६९ अ २३ भम० ४२७७ ।
अभयदेवप्रबन्धः ।
श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात्सौमनसोद्भेदभाखरः सर्वमौलिभूः ॥ १ ॥ आहत्याष्टांगयोगं यः स्वांगमुद्धृत्य च प्रभुः । श्रुतस्य च नवांगानां प्रकाशी स श्रिये द्विधा ॥ २ ॥ वदन्बालो यथा व्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३॥ अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकंदफलं सद्वर्णवृत्तसूः ॥ ४ ॥