________________
२६२
प्रभावकचरिते तत्रास्ति नगरी धारा मंडलायोदितस्थितिः। मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद्भूपालः पालितावनिः । शेषस्येवापरे मूर्ती विश्वोद्धाराय यद्भुजौ ॥६॥ तत्र लक्ष्मीपति म व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत् ॥ ७ ॥ अन्यदा मध्यदेशीयकृतब्राह्मणनंदनौ । प्रह्वप्रज्ञाबलाक्रांतवेदविद्याविशारदौ ॥ ८॥ अधीतपूर्विणौ सर्वान्विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥९॥ श्रीधरः श्रीपतिश्चेति नामानौ यौवनोद्यमात् । देशांतरदिदृक्षायै निर्गतौ तत्र चागतौ ॥ १० ॥ त्रिभिविशेषकम् तौ पवित्रयतः मात्र लक्ष्मीधरगृहांगणम् । सोऽपि भिक्षां ददौ भक्त्या तदाकृतिवशीकृतः ॥११॥ गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं ददृशतुश्च तौ ॥ १२॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसंकुलम् । तत्परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥ १३ ॥ जनो मत्पार्श्वतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किंतु मम किंचिन्न यच्छति ॥ १४ ॥ ब्राह्मणा अपि गीर्वाणान्मन्मुखादाहुतिप्रदाः । तर्पयंतु फलं तु स्यात्तत्कर्मकरतैव मे ॥१५॥ इतीव कुपितो वह्निरलैकेनापि भस्मसात् । विदधे तां पुरीमूरीकृतप्रतिकृतक्रियः ॥१६॥ त्रिभिर्विशेषकम् । लक्ष्मीपतिर्द्वितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वस्वनाशतः खिन्नो लेख्यदाहाद्विशेषतः ॥ १७ ॥ प्राप्ते काले गतौ भिक्षाकृते तस्य गृहांगणे । प्राप्तौ प्लुष्टं च तदृष्ट्वा विषण्णाविदमूचतुः॥ १८ ॥ यजमान तवोनिद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किंतु सर्वदुःखातिशायिनी ॥ १९ ॥ पुनरीक्शुचाक्रांतसत्ववृत्तिर्भवान् किमु ।। धीराः सत्वं न मुंचंति व्यसनेन भवादृशाः ॥ २० ॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाहुःखं हि तादृशम् ॥ २१ ॥