________________
अभयदेवप्रबन्धः ।
२६३ यादृग्लेखकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत्क्रियते हि किम् ॥ २२॥ युग्मम् । जजल्पतुश्च तावावां भिक्षावृत्ती नचापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेखकं पुनः ॥ २३ ॥ श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ वरासने। न्यवेशयजनः स्वार्थपूरकं ध्रुवमर्हति ॥ २४ ॥ तावादितः समारभ्यातिथिवारर्भसंगतम् । व्यक्तवत्सरमासांकसहितं खटिनीदलैः ॥२५॥ वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यातं लेखकं स्वाख्याख्यानवद्धिषणाबलात् ॥ २६ ॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरौ कौचित्प्राप्तौ मदनुकम्पया ॥ २७ ॥ यद्विशोपकमात्रेण वदंतौ तावविस्मृतम् । दुस्तरीसंपुटे पत्रनिरपेक्षं हि लेख्यकम् ॥ २८ ॥ युग्मम् । ततः सन्मान्यसद्भोज्यवस्त्राद्यैर्बहुमानतः। स्वगेहचित्रको तेन विहितौ हितवेदिना ॥ २९॥ जितेंद्रियौ स तौ शांतौ दृष्ट्येति व्यमृशद्धनी। शिष्यौ महुरुपाद्येऽमूस्तां चेत्तत्संघभूषणौ ॥ ३० ॥ इतः सपादलक्षेऽस्ति नाम्नाकूर्चपुरं पुरम्। मषीकूर्चकमाधातुं यदलं शास्त्रवानने ॥ ३१॥ अल्लभूपालपुत्रोपि शक्योऽतीव धराधरः। श्रीमान् भुवनपालाख्यो विख्यातः सान्वयाभिधः ॥ ३२ ॥ तत्रासीत्प्रशमश्रीभिर्वर्द्धमानगुणोदधिः। श्रीवर्द्धमान इत्याख्यः सूरिः संसारपारभूः ॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धांताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतेः ॥ ३४ ॥ अन्यदाविहरन्धारापुर्या धाराधरोपमः। आगाद्वारब्रह्मधाराभिर्जनमुज्जीवयनमुम् ॥ ३५ ॥ लक्ष्मीपतिस्तदार्कण्य श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्नशांताभ्यामिव ताभ्यां गुरोर्नतौ ॥ ३६॥ सर्वाभिगमपूर्व स प्रणम्योपाविशत्प्रभुम् । तौ विधाय निविष्टौ च करसंपुटयोजनम् ॥ ३७॥
१
P. ईषत्. D. ग.