________________
२६४
प्रभावकचरिते वर्यलक्षणवर्या च ध्यौ वीक्ष्य तनुं तयोः । गुरुराहानयोर्मूर्तिः सम्यक् स्वपरजित्वरी ॥ ३८ ॥ तौ च प्राग्भवसंबद्धाविवानिमिषलोचनौ । वीक्ष्यमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ॥ ३९ ॥ महावतभरोद्धारसूरिणौ तपसो निधी। अध्यापितौ च सिद्धांतं योगोद्वहनपूर्वकम् ॥ ४०॥ ज्ञात्वौचित्यं च सूरित्वे स्थापितौ गुरुभिश्च तौ । सिद्धवासोहि सौरभ्यवासं समनुगच्छति ॥४१॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः। नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥ ४२ ॥ ददे शिक्षेति तैः श्रीमत्पत्तनैश्चैत्यसूरिभिः। विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात् ॥४३॥ युवाभ्यामपनेतव्यं शक्त्या बुद्ध्या च तत्किल । यदिदानीतने काले नास्ति प्राज्ञो भवत्समः ॥४४॥ युग्मम् । अनुशास्ति प्रतीच्छाव इत्युक्त्वा गुर्जरावनौ । विहरंतौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४५॥ सद्गीतार्थपरीवारौ तत्र भ्रांती गृहे गृहे । विशुद्धोपाश्रयालाभा वाचां सस्मरतुर्गुरोः ॥ ४६॥ श्रीमान् दुर्लभराजाख्यस्तत्रचासीद्विशां पतिः। गी:पतेरप्युपाध्यायो नीतिविक्रमशिक्षणात् ॥४७॥ श्रीसोमेश्वरदेवाख्यस्तत्र चासीत्पुरोहितः। तद्नेहे जग्मतुर्युग्मरूपौ सूर्यसुताविव ॥ ४८ ॥ तद्वारे चक्रतुर्वेदोच्चारं संकेतसंयुतम् । तीर्थ सत्यापयंतौ च ब्राह्मं पैञ्यं च दैवतम् ॥४९॥ चतुर्वेदीरहस्यानि सारणीशुद्धिपूर्वकम् । व्याकुर्वतौ स शुश्राव देवतावसरे ततः॥ ५० ॥ तद्धानध्याननिर्मग्नचेताः स्तंभितवत्तदा । समग्रेद्रियचैतन्यं श्रुत्योरेव स नीतवान् ॥५१॥ ततो भक्त्या निजं बंधुमाप्याय वचनामृतैः । आव्हानाय तयोः प्रैषीत्प्रेक्षापेक्षी द्विजेश्वरः ॥ ५२ ॥ ता च दृष्टांतरायातौ दध्यावंभोजभूः किमु । द्विधा भूयादआदत्तदर्शनं स्वस्य दर्शनम् ॥ ५३ ॥ हित्वा भद्रासनादीनि तदत्तान्यासनानि तौ। समुपाविशतां शुद्धस्वकंबलनिषद्ययोः ॥५४॥