________________
अभयदेवप्रबन्धः ।
वेदोपनिषदां जैनतत्वश्रुतगिरां तथा । वाग्भिः साम्यं प्रकाश्यैतावश्यधत्तां तदाशिषम् ॥ ५६ ॥
२६५
तथाहि
अपाणिपादो ह्यमनो (जवनो) ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं नहि तस्यास्ति वेत्ता शिवो ह्यरूपः स जिनोऽवताद्वः५७ ऊचतुश्चानयोः सम्यगवगम्यार्थसंग्रहम् । दययाभ्यधिकं जैनं तत्रावामाद्रियावहि ॥ ५८ ॥ युवामवस्थिती कुत्रेत्युक्ते तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ॥ ५९ ॥ चंद्रशालां निजां चंद्रज्योत्स्ना निर्मलमानसः । स तयोरपर्यत्तत्र तस्यतुः सपरिच्छदौ ॥ ६० ॥ द्विचत्वारिंशता भिक्षादोषैर्मुक्तम लोलुपम् । नवकोटीविशुद्धं चायातं भैक्षमभुंजताम् ॥ ६१ ॥ मध्याह्ने याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः । आहूय दर्शितौ तत्र निर्व्यूढौ तत्परीक्षया ॥ ६२ ॥ यावद्विद्याविनोदोयं विरिचेरिव पर्षदि । वर्त्तते तावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः ॥ ६३॥ ऊचुश्चतेझटित्येव गम्यतां नगराद्वहिः । अस्मिन्नलभ्यते स्थातुं चैत्यबाह्यसितांबरैः ॥ ६४ ॥ पुरोधाः प्राह निर्णेयमिदं भूपसभांतरे । इति गत्वा निजेशानामाख्यातमिह भाषितम् ॥ ६५ ॥ इत्याख्याते च तैः सर्वैः समुदायेन भूपतिः । वीक्षितः प्रातरायासीत्तत्र सौवस्तिकोऽपि सः ॥ ६६ ॥ व्याजहाराय देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवंतौ संप्रापतुस्ततः ॥ ६७ ॥ मया च गुणग्राह्यत्वात् स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे प्रहिताश्चैत्य पक्षिभिः ॥ ६८ ॥ अत्रादिशत मे क्षूणं दंडं वात्र यथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा भूपालः समदर्शनः ॥ ६९ ॥ मत्पुरे गुणिनः कस्माद्देशांतरत आगताः । वसंतः केन वार्यते को दोषस्तत्र दृश्यते ॥ ७० ॥ अनुयुक्ताश्च ते चैवं प्राहुः शृणु महीपते । पुरा श्रीवन राजोभूच्चापोत्कटवरान्वयः ॥ ७१ ॥ स बाल्ये वर्द्धितः श्रीमद्देवचंद्रेण सूरिणा । नागेंद्र गच्छभूद्वारप्राग्वराहोपमास्पृशा ॥ ७२ ॥
23