________________
२६६
प्रभावकचरिते पंचाश्रयाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्यदमत्र राज्यं ददौ नवम् ॥ ७३॥ वनराजविहारं च तत्रास्थापयत प्रभुः। कृतज्ञत्वादसौ तेषां गुरूणामहणं व्यधात् ॥ ७४ ॥ व्यवस्था तत्र चाकारि संघेन नृपसाक्षिकम् । संप्रदायविभेदेन लाघवं च यथाभवत् ॥ ७५ ॥ चैत्यगच्छयतिवातसंमतोवसतान्मुनिः। नगरे मुनिभिर्नात्र वस्तव्यं तदसंमतैः ॥ ७६ ॥ राक्षां व्यवस्था पूर्वेषां मान्या पाश्चात्यभूमिपैः। यदादिशसि तत्कार्य राजन्नेवस्थिते सति ॥ ७७॥ राजा प्राह समाचार प्राग्भूपानां वयं दृढम् । पालयामो गुणवतां पूजां तूल्लंघयेम न ॥ ७८॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः। एधंते युष्मदीयं तद्राज्यं नात्रास्ति संशयः ॥ ७९ ॥ उपरोधेन नो यूयममीषां वसनं पुरे। अनुमन्यध्यमेवं च श्रुत्वा तेत्र तदा दधुः ॥ ८ ॥ सौवस्तिकस्ततः प्राह स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थे श्रीमुखेन प्रदीयताम् ॥ ८१ ॥ तदा समाययौ तत्र शैवदर्शनवासवः। शानदेवाभिधः क्रूरसमुद्रविरुदाह (हि)तः ॥ ८२ ॥ अभ्युत्थाय समभ्यर्च्य निविष्टं निज आसने । राजा व्यजिज्ञपत्किचिदद्य विज्ञप्यते प्रभो ॥ ८३॥ प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् ।। इत्याकर्ण्य तपस्वींद्रः प्राह प्रहसिताननः ॥ ८४॥ गुणिनामर्चनां यूयं कुरुध्वं विधुतैनसाम् । सोऽस्माकमुपदेशानां फलपाकश्रियां निधिः॥ ८५ ॥ शिव एव जिनो बालत्यागात्परपदस्थितः। दर्शनेषु विभेदो हि चिह्न मिथ्यामतेरिदम् ॥ ८६ ॥ निस्तुषव्रीहिहट्टानां मध्ये त्रिपुरुषाश्रिता। भूमिं पुरोधसा ग्राह्योपाश्रयाय यथारुचि ॥ ८७ ॥ विघ्नः स्वपरपक्षेभ्यो निषेध्यः सकलो मया। द्विजस्तच्च प्रतिश्रुत्य तदाश्रयमकारयत् ॥ ८८॥ ततः प्रभृति संजज्ञे वसतीनां परंपरा । महद्भिः स्थापितं वृद्धिमश्नुते नात्र संशयः ॥ ८९ ॥