SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ अभयदेवप्रबन्धः । २६७ श्रीबुद्धिसागरः सूरिश्चके व्याकरणं नवम् । सहस्राष्टकमानं तत् श्रीबुद्धिसागराभिधम् ॥९॥ अन्यदा विहरंतश्च श्रीजिनेश्वरसूरयः। पुनर्धारापुरी प्रापुः सपुण्यप्राप्यदर्शनाः ॥९१॥ श्रेष्ठीमहीधरस्तत्र पुरुषार्थत्रयोन्नतः। मुक्कैकां स्वधने संख्यां यः सर्वत्र विचक्षणः ॥९२॥ तस्याभयकुमाराख्यो धनदेव्यंगभूरभूत् ।। पुत्रः सहस्रजिह्वोपि यहुणोक्तौ नहि प्रभुः ॥९३॥ सपुत्रः सोऽन्यदा सूर्ति प्रणंतुं सुकृती ययौ । संसारासारतां मूलश्रुतो धर्मश्चतुर्विधः॥९४॥ अथाभयकुमारोऽसौ वैराग्येण तरंगितः। आपपृच्छे निजं तातं तप:श्रीसंगमोत्सुकः ॥९५॥ अनुमत्या ततस्तस्य गुरुभिः स च दीक्षितः। ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥९६॥ स चावगाढसिद्धांतःतत्प्रेक्षानुमानतः। बभौ महाक्रियानिष्ठः श्रीसंघं भोजभास्करः॥९७॥ श्रीवर्द्धमानसूरीणामादेशात्सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः॥९८॥ श्रीमानभयदेवाख्यः सूरिः पूरितविष्टपः। यशोभिर्विहरन्प्राप पत्यपद्रपुरं शनैः ॥ ९९ ॥ आयुःप्रान्ते च संन्यासमवलंब्य दिवः पुरीम् । अलंचक्रुर्वर्द्धमानसूरयो भूरयः क्रमात् ॥ १०० ॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः। सिद्धांतत्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥ १०१॥ ईषत्स्थितं च यत्सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ खिलं जशे ततश्च तत् ॥ १०२॥ निशीथेऽत्र प्रभुं धर्मस्थानस्थं शासनामरी। नत्वा निस्तंद्रमाह स्माभयदेवं मुनीश्वरम् ॥ १०३॥ श्रीशीलांकः पुरा कोट्याचार्यनाम्ना प्रसिद्धभूः। वृत्तिमेकादशांश्याः स विदधे धूतकल्मषः ॥ १०४॥ अंगद्वयं विनान्येषां कालादुच्छेदमादधुः। वृत्तयस्तत्र संघानुग्रहायाद्य कुरूद्यमम् ॥ १०५॥ सूरिः प्राह ततो मातः कोऽहमल्पमतिर्जडः। श्रीसुधर्मकृतग्रंथदर्शनेऽप्यसमर्थधीः॥ १०६॥ १. शंका. २. P. तत्वका.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy