________________
२६८
प्रभावकचरिते अज्ञत्वात्वचिदुत्सूत्रे विवृते कल्मषार्जनम् । प्राच्यैरनंतसंसारभ्रमिभृद्दर्शितं महत् ॥ १०७ ॥ अनुलंध्या च ते वाणी तदादिश करोमि किम् । इतिकर्तव्यतामूढो लभते किंचिदुत्तरम् ॥ १०८ ॥ देवी प्राह मनीषीश सिद्धांतार्थविचारणे । योग्यतां तव मन्ताहं कथयामि विचिंतया ॥ १०९॥ यत्र संदिह्यते चेतः प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमंधरस्वामी तत्र गत्वा धृतिं कुरु ॥ ११०॥ आरभव ततो होतन्मात्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये इहार्थे त्वत्पदोः शपे ॥ १११ ॥ श्रुत्वेत्यंगीचकाराथ कार्य दुःकरमप्यदः। आचामाम्लानिचारण्य ? ग्रंथसंपूर्णतावधिः ॥ ११२॥ अक्लेशेनैव संपूर्णा नवांग्या वृतयस्ततः । निरवाह्यत देव्या च प्रतिज्ञा या कृता पुरा ॥ ११३ ॥ महाश्रुतधरैः शोधितासु तासु चिरंतनैः। ऊरीचक्रे तदा श्राद्धैः पुस्तकानां च लेखनम् ॥११४॥ ततः शासनदेवी च विजने तान्व्यजिशपत् । प्रभो मदीयद्रव्येण विधाप्या प्रथमा प्रति ॥ ११५॥ इत्युक्त्वा सा च समवसरणे परिहैमनीम् । उत्तरीयां निजज्योतिः क्षतदृष्टिरुचिं दधौ ॥ ११६ ॥ तिरोधत्त ततो देवी यतयो गोचरादथ । आगता ददृशुः सूर्यबिंबवत्तद्विभूषणम् ॥ ११७ ॥ चित्रीयितास्ततश्चित्ते पप्रच्छुस्ते प्रभून्मुदा । ते चाचख्युरुदंतं तं श्राद्धानाहाययंस्तथा ॥ ११८ ॥ आयातानां ततस्तेषां गुरवः प्रेक्षयंश्च तत् । अजानंतश्च तन्मूल्यं श्रावकाः पत्तनं ययुः ॥ ११९ ॥ अदर्शितैश्च सा तत्र स्थितरत्नपरीक्षिणम् । अज्ञास्तेऽपि च तन्मूल्ये मन्त्रं विदधुरीदृशम् ॥ १२० ॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तद्दत्तो निःक्रयो ग्राह्यो मूल्यं निर्णीयते ननु ॥ १२१ ॥ समुदायेन ते सर्वे पुरो राज्ञस्तदद्भुतम् । मुमुचुः किल शक्रेण प्रणयात्प्राभृतं कृतम् ॥ १२२॥ तदुदंते च विज्ञप्ते तुष्टः प्रोवाच भूपतिः। तपखिना विना मूल्यं न गृह्णामि प्रतिग्रहम् ॥ १२३ ॥