________________
अभयदेवप्रबन्धः ।
२६९ ते प्रोचुः श्रीमुखनास्य यमादिशति निःक्रयम् । स एवास्तु प्रमाणं नस्ततः श्रीभीमभूपतिः ॥ १२४ ॥ द्रम्मलक्षत्रयं कोशाध्यक्षाद्दापयति स्म सः। पुस्तकान्लेखयित्वा च सूरिभ्योददिरेथ तैः ॥१२५ ॥ पत्तने ताम्रलिप्त्यां चाशापल्यां धवलक्वके । चतुराश्चतुरशीतिः श्रीमंतः श्रावकास्तथा ॥ १२६॥ पुस्तकान्यंगवृत्तीनां वासनाविशदाशयाः। प्रत्येकं लेखयित्वा ते सूरीणां प्रददुर्मुदा ॥ १२७॥ युग्मम् ॥ प्रावर्त्तत नवांगानामेवं तत्कृतवृत्तयः। श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुंचिकाः ॥ १२८॥ पुरं धवलकं प्रापुरथ संयमयात्रया। स्थानेष्वप्रतिबंधो हि सिद्धांतोपायास्तिलक्षणम् ॥ १२९॥ आचामाम्लतपःकष्टान्निशायामतिजागरात् । अत्यायासात्प्रभोर्जशे रक्तदोषो दुरायतिः॥ १३०॥ अमर्षणजनास्तत्र प्रोचुरुच्छत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभूत्कुपितैः शासनामरैः ॥ १३१ ॥ निशम्येति शुचाक्रान्तः स्वांतःप्रेयाभिलाषुकः । निशि प्रणिदधे पन्नगेंद्रं श्रीधरणाभिधम् ॥ १३२॥ लेलिहानेश्वरं लेलिहानं देहमनेहसा। अचिरेणैक्षत श्रीमान् खप्ने सत्वकषोपलः ॥ १३३ ॥ . कालरूपेण कालेन व्यालेनालीढविग्रहः। क्षीणायुरिति संन्यास एव मे सांप्रतं ततः॥ १३४॥ इति ध्यायन् द्वितीयेह्नि निशि स्वप्ने स औच्यत । धरणेद्रेण रोगोऽयं मया लिह्य हृतस्ततः॥१३५॥ युग्मम् ॥ निशम्येति गुरुः प्राह नार्तिममृत्युभीतितः। रोगाद्वा पिशुना यंतु कद्वदा तद्विदुःसहम् ॥ १३६॥ नागः प्राहाधृतिर्नात्र कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं हित्वा दैन्यं जिनोद्धतेः॥१३७॥ श्रीकान्तीनगरीसक्तधनेशः श्रावकेण यत् । वारिधेरंतरा यानपात्रेण व्रजता सता ॥ १३८॥ तदधिष्ठायिकसुरस्तंभिते वहने ततः। अर्चितव्यतरस्योपदेशेन व्यवहारिणौ ॥ १३९ ॥ तस्या भुवः समाकृष्टा प्रतिमानां त्रयीशितुः। तेषामेकाचचारूपग्रामे तीर्थ प्रतिष्ठितम् ॥१४०॥