________________
प्रभावकचरिते अन्या श्रीपत्तने चिंतातरोर्मूले निवेशिता। अरिष्टनेमिप्रतिमा प्रासादांतःप्रतिष्ठिता ॥ १४१॥ तृतीया स्तंभनग्रामे सेटिका तटिनीतटे । तरुजालांतरे भूमिमध्ये विनिहितास्ति च ॥१४२॥ तां श्रीमत्पार्श्वनाथस्य प्रतिमा प्रतिमामिह । प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥ १४३ ॥ षभिः कुलकम् पुरा नागार्जुनो विद्यारससिद्धौ धियां निधिः । रसमस्तंभयभूम्यंतःस्थबिंबप्रभावतः॥१४४॥ ततस्तंभनकाभिख्यस्तेन ग्रामो निवेशितः। तदेषा तेपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥१४५ ॥
युग्मम् ॥ अदृष्टान्यैः सूरिवृद्धारुपांते मार्गदर्शिका । श्वेतस्वरूपतस्तत्र क्षेत्रपालो यथाग्रतः ॥ १४६ ॥ उक्त्वेत्यंतर्हिते तत्र सूरयः प्रमदोद्धराः। व्याकुर्वन्ति स्म संघस्य निशावृत्तं तदद्भुतम् ॥ १४७॥ ततश्च संमदोत्तालैः प्रक्रान्ता धार्मिकैस्तदा। यात्रानवशती तत्र शकटानां चचाल च ॥ १४८॥ अग्रे भूत्वा प्रभुर्वृद्धा कौलेयकपदानुगः। श्रावकाऽनुमतोऽचालीत्तणकंटकिना यथा ॥ १४९॥ शतैस्तत्र ययुः सेटीतीरे तत्र तिरोहितौ । वृद्धाश्वौ तौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥ १५० ॥ पप्रच्छुरग्रे गोपालान्पूज्यं किमपि वो किमु । जल्पा? मत्रास्ति तेष्वेकः प्रोवाच श्रूयतां प्रभो ॥१५१॥ ग्रामे महीणलाख्यस्य मुख्यपट्टकिलस्य गौः। कृष्णागत्य क्षरेत्क्षीरमत्र सर्वैरपि स्तनैः॥१५२॥ गृहे रिक्तैव सा गच्छेदुह्यमानाऽतिकष्टतः। मनाग्मुंचति दुग्धं न ज्ञायतेऽत्र न कारणम् ॥ १५३ ॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य संनिधौ। श्रीमत्पार्श्वप्रभोः स्तोत्रं प्रोचे प्राकृतवस्तुकैः ॥१५४॥ जयतिहूयणेत्यादिवृत्तं द्वात्रिंशतं तदा। अवदन् स्तवनं तत्र नासाग्रन्यस्तदृष्टयः॥१५५ ॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः। शनैरुन्निद्रतेजस्विबिंबं तत्प्रतिवस्तुकम् ॥१५६॥ प्रणतं सूरिभिः संघसहितरेतदंजसा।
गतो रोगः समग्रोऽपि कायोऽभूत्कनकप्रभः ॥ १५७ ॥ १ P. बिंबा० २ P. महाण,