________________
अभयदेवप्रबन्धः ।
२७१ गंधांभोभिः स संस्मप्य कर्पूरादिविलेपनैः। विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥ १५८॥ चक्रे तस्योपरिच्छाया सच्छायाप्रतिसीरया। सत्रावारितात्तत्र संघो ग्राम्यानभोजयत् ॥ १५९ ॥ . प्रासादार्थ ततश्चक्रुः श्राद्धाव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः॥१६० ॥ श्रीमल्लवादिशिष्यस्य श्राद्धैरानेश्वराभिधः। महिषाख्यः पुरावासः समाह्वायि धियां निधिः ॥ १६१॥ अनुयुक्तः समं मान्यकर्मांतरविचक्षणः । अथ प्रासाद आरोढुं सोऽचिरात्पर्यपूर्यत ॥१६२॥ कर्माध्यक्षस्य वृत्तौ यम्भ एकोदिनं प्रति । विहितो घृतकर्षश्च भुक्तो तंडुलमानकम् ॥ १६३॥ विहृत्य भोजनात्तेन तेन द्रव्येण कारिता। खादेवकुलिका चैत्ये सा तत्राद्यापि दृश्यते ॥ १६४ ॥ शुभे मुहूर्ते बिंबं च पूज्यास्तत्र न्यवेशयन् । तद्रात्रौ चरणाधीशस्तेषामेतदुपादिशत् ॥ १६५ ॥ स्तवनादमुतो गोप्यं मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां प्रत्यक्षीभूयते मया ॥ १६६ ॥ तदादेशादतोऽद्यापि त्रिंशद्वत्तमिता स्तुतिः। सपुण्यैः पठ्यमानात्र क्षुद्रोपद्रवनाशनी ॥ १६७॥ ततःप्रभृत्यदस्तीर्थ मनोवांच्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥१६८ ॥ अद्यापकलशो जन्मकल्याणकमहामहे । आद्यो धवलकश्राद्धः सच रूपयति प्रभुम् ॥ १६९ ॥ बिंबासनस्य पाश्चात्यभागेऽक्षरपरंपरा। ऐतिह्यान् श्रूयते पूर्वप्रकथिता जने? ॥ १७०॥ नमस्तीर्थकृतस्तीर्थे वर्षे द्विकचतुष्टये । आषाढश्रावको गौडोऽकारयत्प्रतिमात्रयम् ॥१७१ ॥ श्रीमान् जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः। चिरमायुः प्रपाल्यैतौ संन्यासाद्दिवमीयतुः ॥ १७२॥ श्रीमानभयदेवोपि शासनस्य प्रभावना। पत्तने श्रीकर्णराज्ये परणोपास्तिशोभितः ॥ १७३ ॥ विधाय योगिनीरोधधिकृतापरवासनः । परं लोकमलंचक्रे धर्मध्यानकधीनिधिः॥ १७४॥ युग्मम् ।