________________
२७२
प्रभावकचरिते वृत्तांतोऽभयदेवसूरिसुगुरोरीदृक् सतामर्चितः कल्याणैकनिकेतनं कलिकलाशैलाद्रिवज्रप्रभः । भूयादुर्धरदुर्घटोदिततमःप्रध्वंससूर्योदयः श्रेयः श्रीनिलयो लयं दिशतु वो ब्रह्मण्यनंतोदये ॥ १७५ ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरी प्रद्युम्नसूरीक्षितो वृत्तांतोऽभयदेवसूरिसुगुरोः शृंगोगहेंदुप्रमः ॥ १७६ ॥ वरकरणबंधुजीवकनृतिल कनालीकरूपविजयस्व । श्रीप्रद्युम्नसुजाते सुमनश्चित्रं नवकुलश्रीः ॥ १७७॥
ग्रंथ १८२ अ० उभयं ४४५६ ।
इतिश्री अभयदेवप्रबन्धः
अथ श्रीवीरप्रबंधः। वीराचार्यः श्रिये सोस्तु संतः क्रोधाद्यरिक्षयम् । यदभ्यासे कृताभ्यासाः कर्तुमिच्छंति सांप्रतम् ॥ १॥ यत्करस्पर्शमात्रेण कन्यादिष्वपि संक्रमम्।। विधाय भारती वक्ति कथं वीरः स वर्ण्यते ॥२॥ बहुश्रुतमुखाच्छ्रुत्वा तद्वृत्तं कियदप्यहम्। वर्णयिष्यामि बालः किं न वक्ति स्वानुमानतः॥३॥ श्रीमच्चंद्रमहागच्छसागरे रत्नशैलवत् । अवांतराख्यया गच्छः षंडिल्ल इति विश्रुतः॥४॥ श्रीभावदेव इत्यासीत् सूरिरत्नं च रत्नवत् । पात्रस्नेहादिहीनोऽपि सदा लोकहिते रतः॥५॥ श्रीमद्विजयसिंहारव्याः सूरयस्तत्पदेऽभवन् । प्रतिवादिद्विपघटाकटापाटनलंपटाः ॥६॥ तत्पट्टमानससरोहंसाः श्रीवीरसूरयः। बभूवुर्गतिशब्दाभ्यामनन्यसदृशश्रियः ॥७॥ राजा श्रीसिद्धराजस्तान्मित्रत्वे स्थापयन् गुणैः। खभावविशदे ह्येष ददाति कुमुदे मुदम् ॥ ८॥ अथ मित्रं समासीनो नृपतिर्नर्मणावदत् । श्रीवीराचार्यमुन्निद्रं तेजो वः क्षितिपाश्रयान् ॥९॥ अथाहुः सूरयः स्वीयप्रज्ञा भाग्यैर्विजृभते । प्रतिष्ठा नान्यतःश्वा किं सिंहोजस्वी नृपादृतः॥१०॥