________________
श्रीवीरप्रबन्धः । राजाह मत्सभां मुक्त्वा भवतोऽपि विदेशगा। अनाथा इव भिक्षाका बाह्यभिक्षाभुजो ननु ॥११॥ सूरिराह भवत्प्रेमसंदानमिव नोऽभवत् । दिनानीयंति गच्छाम आपृष्टः सांप्रतं भवान् ॥१२॥ भूपः प्राह न दास्यामि गन्तुं निजपुराय वः। सूरिराह निषिध्यामो यांतः केन वयं ननु ॥१३॥ इत्युक्त्वा खाश्रयं प्रायात् सूरिभूरिकलानिधिः। रुरोध नगरद्वारः सर्वत्र नृपतेनरैः ॥१४॥ इतश्च गुरवः साध्यं धर्मकृत्यं विधाय ते । विधिवद्विदधुर्ष्यानं श्रीपट्टपट्टिकासनाः ॥ १५ ॥ अध्यात्मयोगतः प्राणनिरोधाद्गनाध्वना । विद्याबलाञ्च ते प्रापुः पुरी पल्लीतिसंशया ॥१६॥ प्रातर्विलोकिते तत्रादृष्टे राजाह्यचिंतयत् । किं मित्रं गत एवायं सदा शिथिलमोहधीः ॥ १७ ॥ ईदृक् पुनः कथं प्राप्योनेकसिद्धिकुलावनिः । सिद्धिस्नेहे वयं मंदपुण्याः पिण्याकसंनिभाः ॥१८॥ इतश्च ब्राह्मणैः पल्लीवासैः श्रीपत्तने पुरे । विज्ञाप्यततरां श्रीमजयसिंहनरेशितुः॥१९॥ तिथिनक्षत्रवारावासरव्यक्तियुते दिने । श्रीवीरसूरिरायातः संगतो इति न स्फुटम् ॥२०॥ श्रुत्वेति विममर्शाथ भूपालः केलिरीदृशी। विकृता यत्स एवैष प्रमोहापोहवासरः ॥२१॥ ययावाकाशमार्गेण तद्रात्रावेव स ध्रुवम् । नर्मलीलाद्वितीयेह्नि तद्विजानां स संगतः॥२२॥ युग्मम् । उक्तं वा रसपूर्णोऽथ प्रधानान् प्राहिणोन्नुपः। आह्वानाय महाभक्ता ययुस्ते तत्र मंक्षु च ॥२३॥ नृपस्यानुनयः सांद्रीकृत्य तश्च प्रकाशितः। औदासीन्यस्थितास्ते च प्रोचुः प्रचुरसंयमाः॥२४॥ कारणं सहकार्यत्र राज्ञ उच्चावचं वचः। तस्माद्विहृत्य देशेषु यद्येष्यामो भवत्पुरे ॥ २५॥ दुर्लभं मानुषं जन्म व्रतं विद्या बलं श्रुतम् । मुधा नराधिपस्नेहमोहे को नाम हारयेत् ॥ २६ ॥ इत्याकर्ण्य च ते प्रोचुरेकं शृणुत भूपते । वचः सिद्धत्वमस्माकं त्वत्संगात्तथ्यतास्पदम् ॥२७॥