________________
२७४
प्रभावकचरिते भविष्यति पुनः कालमियंतं पितृनाम तत् । सिद्धे भवति पार्श्वस्थ वयं सिद्धाहि नान्यथा ॥२८॥ श्रुत्वेति बहुमानाद्रेरिव तैराददे वचः। आयास्यते पुरे तत्र मा चिंतात्र विधीयताम् ॥ २९ ॥ महाबोधपुरे बौद्धान् वादे जित्वा बहून् तथा । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः ॥ ३०॥ परप्रवादिनस्तैश्च जितास्तेषां च भूपतिः। छत्रचामरयुग्मादिराजचिह्नान्यदान्मुदा ॥ ३१ ॥ व्यावृत्त्याध्वनिजां भूमिमायांतस्तेऽवतस्थिरे। पुरे नागपुरे तत्राप्यकार्युश्च प्रभावनाम् ॥ ३२ ॥ ज्ञात्वाथ सिद्धराजेनाहूता भक्तिभृताथ ते। प्रैषुः परिच्छदं गोप गिरिराजसमर्पितम् ॥३३॥ विजट्ठः सूरयस्तस्माच्छनैः संयममात्रया। अणहिल्लपुरासन्नं चारूपग्राममागमत् ॥ ३४॥ अभ्युद्ययावथ श्रीमजयसिंहनरेश्वरः । प्रवेशोत्सवमाधत्तादृष्टपूर्व सुरैरपि ॥ ३५॥ अथात्र वादिसिंहाख्यः सांख्यवादी समागमत् ।
परं प्रदत्तवानीदृक् लिखनश्लोकदुर्घटम् ॥ ३६॥ तथाहि-उद्धृत्य बाहुं किल रारटीति यस्यास्ति शक्तिः सच वावदीतु।
मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि३७ श्रीमत्कर्णमहाराजबालमित्रं यतीश्वरः । गोविंदाचार्य इत्यस्ति वीराचार्यकलागुरुः॥ ३८ ॥ रात्रौ रहः समागत्य छन्नवेषः क्षमाधिपः। प्राह तं किमयं भिक्षुरपि पूज्यैः प्रतीक्ष्यते ॥ ३९ ॥ तैःप्रोचे भवतामेव वागविलोक्यात्र भूयते। प्रभाते विवदिष्यंतं वीराचार्यों विजेष्यते ॥४०॥ प्रीतो राज्ञा प्रभाते तमाह्वास्त नृपपर्षदि । स निःस्पृहवत्दंभेन शांतोऽवददिदं तदा ॥४१॥ वयं किमागमिष्यामो निःसंगो यदि भूपतिः। अस्मद्वाकौतुकी भूम्यासनोत्रायातु सोऽपि तत् ॥४२॥ प्रातः कुतूहली राजोररीकृत्य तदप्यथ । तदावासे समागच्छदुर्व्यामुामुपाविशत् ॥ ४३ ॥ समाह्वयत गोविंदसूरिं सूरिसभासदम् । सोऽपरान् साकृतीनीषद्विदुषोऽपि पुरोधे ॥४४॥