________________
श्रीवीरप्रबन्धः।
वीराचार्य महाप्रज्ञाप्रज्ञातानेकशास्त्रकम् । उद्यत्कवित्ववित्कृत्वावधि पश्चाञ्चकार च ॥४५॥ समाययौ ततस्तत्रोपविष्टः कंबलासने । राजाह को वदेदेषाममुना वादिना सह ॥ ४६॥ . श्रीगोविंदप्रभुः माहानौचित्यक्षरसंगिना। अनेन शास्त्रपाथोधितरंडोपमधीजुषः (षा)॥४७॥ अझेन सह लजंतेवदंतस्तत् शिशुः कृती। वीरो वदिष्यति प्राज्ञः श्रुत्वा वादी स चावदत् ॥४८॥ दुग्धगंधमुखो मुग्धः किं वक्ष्यति मया सह । . असमानो विग्रहोयं नास्माकं भासते शुभः ॥ ४९ ॥ राशोचे क्षीरकंठास्यादर्थपीयूषगंधितः। अस्मात्त्वन्मदधत्तूरविभ्रमः स हरिष्यति ॥ ५० ॥ श्रुत्वेति स उपन्यासमवज्ञावशतोदधेः। अर्धकर्पूरहस्तस्थमस्तकस्तर्कसंभवम् ॥ ५१ ॥ विरते तत्र चाजल्पत् श्रीवीरो विदुषां प्रभुः। वदामि गद्यात्पद्याद्वा यच्चित्ते तव भासते ॥५२॥ स्वेच्छं तदुद्दिशच्छंदोऽलंकारं च ममाग्रतः। सर्वानुवादमर्थात्तु वादं वा सत्वरं भवान् ॥ ५३ ॥ श्रुत्वेति स पुनः प्राह गुर्जराडंबरः पुरः। गमनं क्रियते बालः किं ज्ञास्यति भवानिह ॥ ५४॥ अथ शक्तिस्तवास्ते चेत्पद्येन छंदसा पुनः। वद मत्तमयूरेणालंकारान्निह्नवात्तथा ॥ ५५॥ सर्वानुवादमाश्रित्य स निशम्येति तं जगौ। उत्तिष्ठासनसंस्थोस्थाः सावधानस्ततः शृणु ॥५६॥ वयं नहि गिरां देव्या अवहेलां विदध्महे । अर्द्धसुप्तपुरोवादादाकयेति सचोत्थितः॥५७ ॥ वाचि वीरं ततोवीरं यथा प्रागुक्तसंश्रवात् । उपन्यस्यंतमाकास्विद्यतोज्झितगीर्बलः ॥५८॥ श्रीवीरे विरते जल्पादर्थतस्तस्य कुर्वतः। अनुवादं जगादासौ जल्पसर्वानुवादतः ॥ ५९॥ न शक्नोमीति स प्राह वादिसिंहस्ततो नृपः। स्वयं बाहौ विधृत्यामुं पातयामास भूतले ॥ ६०॥ वक्तुं न शक्तश्चेदुच्चैरासने कथमासिवान् । तथा च कविराजः श्री श्रीपालो वाक्यमब्रवीत् ॥ ६१ ॥