________________
२७६
प्रभावकचरिते गुणैरुत्तुंगतां याति नोचैरासनसंस्थितः। प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥६२॥ ततो विडंब्यमानं तं दृष्ट्वा श्रीवीर ऊचिवान् । श्रूयते भूप मे वाणी प्राणी दर्पण जीयते ॥ ६३ ॥ यदनेन नराधीशः शुद्धन्यायैकनिष्ठधीः। सभामध्यमवज्ञातो वर्णाश्रमगुरुर्भवान् ॥ ६४ ॥ स्वस्यांबुजस्थिरावासप्रदानात्प्रीणिता दृढम् । त्वगृह्या कोपभूरत्र देव्यदाद्वाचि मंहताम् ॥ ६५ ॥ युग्मम् । वाचां रणे तु चास्माकं प्रागूढसमयो ह्ययम् । वादी निगृह्यमाणोहि संरक्ष्यः प्रतिवादिना ॥६६॥ ततो विमुच्यतां श्रीमन्मदांधोऽयं कृपास्पदम् । निशम्यति नृपेणासौ मुक्तो दृष्ट्वा ततो बहिः॥ ६७ ॥ जयपत्रार्पणादस्याददे तेजः परं तदा । द्रव्यं तु निस्पृहत्वेन स्पृशत्यपि पुनर्न सः॥ ६८ ॥ अन्यदा जययात्रायां बलितो गूर्जरे शिशुः । चतुरङ्गचमू चक्रे रेणुच्छादितभानुभिः ॥ ६९ ॥ श्रीवीराचार्यचैत्यस्य पुरतः सञ्चरिष्णुभिः। नृपमीक्षितुमाप्ते च कवीन्द्रे तत्र विश्रुते ॥ ७० ॥ क्रमात्तत्र च संप्राप्तः श्रीसिद्धाधीशभूपतिः । तं समीक्ष्य कविः कश्चित्समस्यापदमभ्यधात् ॥ ७१ ॥ तदुद्दिश्य कवौ वीराचार्य दृष्टिं व्यधान्नृपः।
अनायासात्ततोऽपूरि कृतिना तेन सत्वरम् ॥ ७२ ॥ तथाहि-कालिन्दि ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्माच्छत्रोमें नर्मदाहं त्वमपि मम सपत्न्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कजलैर्मालवीनां बाष्पाम्भोभिः किमासांसमजनि बलितो गुर्जराणामधीशः॥७३॥
श्रुत्वेति भूप आचख्यौ तव सिद्धगिरानया। मालवेशं गृहीष्यामि संशयो नात्र मे हृदि ॥ ७४॥ त्वया बलानकस्थेनाशिष्टो मे शत्रुनिग्रहः । विजयस्य पताकेयं ततस्तत्रास्तु सा दृढम् ॥ ७५॥ श्रीभावाचार्यचैत्यस्य पताकाभूदलानके। महता विहितं यस्माञ्चिरेणापि न नश्यति ॥ ७६॥ वादीकमलकीया॑ख्य आशां वरयतीश्वरः। वादमुद्राभृद्भ्यागादवज्ञातान्यकोविदः ॥ ७७॥