________________
श्रीवीरप्रबन्धः ।
आस्थानं सिद्धराजस्य जिह्वाकण्डूययार्दितः । वीराचार्य स आह्वास्त ब्रह्मास्त्रं विदुषां रणे ॥ ७८ ॥ पञ्चवर्षीयबालां स सहादाय समागमत् । अवज्ञया वादिनं तं वीक्ष्य न्यविशदासने ॥ ७९ ॥ स चोपन्यस्तवान्सर्वसामर्थ्येन गुरुस्ततः । श्रीवीरो बालया सार्द्धमरंस्त कुतुकादिव ॥ ८० ॥ स तं दृष्ट्वाऽब्रवीद्वादी भूपते भवतः सभा । नोचिता विदुषां बालक्रीडाविप्लवसंभृता ॥ ८१ ॥ - राजा हस्तप्रमाणेन क्रीडत्येष बुधेश्वरः । इत्युक्त्वा प्रेषितो वीरो नृपेण प्राह सस्मितः ॥ ८२ ॥ समानवयसोर्वादों विमृश्येति मया ततः । एषा बाला समानिन्ये वस्त्रावृतनिरादरा ॥ ८३ ॥ एष वाद्यपि नग्नत्वादृश्यते डिम्भसन्निभः । उभयोरेतयोरस्तु वादो व्रीडात्वनेन तु ॥ ८४ ॥ स्त्रीनिर्वाणनिषेधेनानयैवास्य च विग्रहः । विधेयस्तदसौ वादमुद्रयामुं विजेष्यते ॥ ८५ ॥ अस्पृष्टहस्तौ तन्मौलौ प्रदायोचे यतीश्वरः । तां जल्पवादिनानेन स्थापय स्त्रीषु निर्वृतिम् ॥ ८६ ॥ ततः सा निपुणाधीतः प्रमाणविदुषामिव । वाग्भरैः स्थापयामास तेनाशक्य स्थिरोत्तरैः ॥ ८७ ॥ अनेडमूकतां प्राप्ते तत्र वित्रस्तमानसे । सस्रुर्जयजयारावाः सभ्यानां नृपतेरपि ॥ ८८ ॥ भूपालः प्राह को जेता मत्सभां तपति प्रभौ । श्रीवीरे वादिवीरेऽत्र सिद्धेऽनेकासु सिद्धिषु ॥ ८९ ॥ यदीयहस्तस्पर्शेन संक्रान्ता यत्र तत्र च । वाग्देवी भाषतेऽजस्रं स शक्यः केन वर्णितुम् ॥ ९० ॥ एवं युगप्रधानाभगुणव्यूता पटा इव । श्री वीरसूरयः पान्तु भव्यजाड्यापहारिणः ॥ ९१ ॥ श्रीमत्कालकसूरीणामनिर्वाच्यं प्रभाद्भुतम् । अद्यापि यत्कुले वीराः प्राग्वीरा भावयन्त्यमी ॥ ९२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीवीरवृत्ताद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः सविंशोऽभवत् ॥ ९३॥ ग्रं० ९६ अ० ११ उभयं ४५५२
इति श्री वीरप्रबन्धः।
24
२७७