________________
२७८
प्रभावकचरिते
श्रीदेवसूरिप्रबन्धः। श्रीदेवसूरिर्वः पातु य आक्रम्य दिगम्बरम् । कीर्तेरपि स्त्रियः सिद्धमूलविद्यामतिष्ठिपत् ॥१॥ देवाचार्यः प्रियो भूपात्केवलज्ञानशालिनाम् । विमोच्याभोजनं येनाव्युच्छित्तिः शासने कृता ॥२॥ जीवितानादिराजीवममध्यमहितोदयम् । अनंतविधुरद्रोहं वदनं तस्य संस्तुमः ॥ ३॥ भ्रांतिसंवर्तकभ्रांतिदुर्वृत्तरजसः शमे। . अवारवारिवाहश्रीतद्वृत्तं परिकीर्त्यते ॥४॥ अस्ति गूर्जरदेशस्य नवनीतमिवोद्धृतम् ।। अष्टादशशतीनाम मंडलं स्वर्गखंडलम् ॥५॥ तत्र मदाहृतं नाम नगरं नगराजिभिः। ध्वांतस्येव महादुर्गमगम्यं सूर्यरोचिषाम् ॥ ६ ॥ सद्वत्तो जीवनच्छायो राजमानः स्वतेजसा। प्राग्वाटवंशमुक्तासीद्वीरनागाभिधो गृही ॥७॥ तत्प्रिया सक्रियाधारा प्रियंकरगुणावनिः । जिनदेवीति देवीव मेना हिमवतो बभौ ॥ ८॥ अन्यदा सा निशि स्वप्ने पीयूषरुचिमैक्ष्यत । प्रविशंतं मुखे पृथ्व्यामवतारेच्छया किल ॥९॥ अन्वये गुरवस्तस्य श्रीमुनिचंद्रसूरयः। संति शांतिकमंत्रेति येषां नामाक्षराण्यपि ॥१०॥ प्रातः सा तत्पुरे गत्वा नत्वा सत्वमहालया। अपृच्छन्मुदिताचार्य स्वप्नस्यातिशयस्पृशः॥११॥ देवचंद्रनिभः कोऽप्यवततार तवोदरे। आनंदयिष्यते विश्वं येन ते चेत्थमादिशन् ॥ १२ ॥ अथ सा समयेऽसूत सुतं वज्रोपमद्युतम् । यत्तेजसा कलिः शैलश्चकंपे भेदभीतितः ॥ १३ ॥ हृदयानंदने तत्र वर्धमाने च नंदने । चंद्रस्वप्नात्पूर्णचंद्र इत्याख्यां तत्पिता व्यधात् ॥ १४ ॥ कदाचिन्नगरे तत्राशिवं जज्ञे जनांतकृत् । सहसैव यतो लोकः प्रेक्षाप्रेक्ष्यत्वमादधौ ॥ १५ ॥ वीरनागो विचिंत्यैतद्दक्षिणां दिशमाश्रयत् । भृगुकच्छपुरे प्राप लाटदेशविभूषणम् ॥ १६ ॥ विहारं जंगम तीर्थ श्रीमुनिचंद्रसूरयः। चक्रुस्तत्र तदादेशात्स्थापितोऽसौ सधर्मिभिः ॥ १७ ॥