________________
श्रीदेवसूरिप्रबन्धः ।
२७९ वर्षाष्टकवयाः पूर्णचंद्र इत्यस्य नंदनः। चक्रे सुखासिकादीनां वाणिज्यं शैशवोचितम् ॥१८॥ चिंतनौचित्यहर्येषु विकाशिचणकैः समाः। द्राक्षा अवापडिभत्वे(?)पिहि पुण्यानि जाग्रति ॥ १९॥ कस्मिंश्चित्सदनेऽन्येधुर्गतो व्यंजनविक्रये। द्रम्मान् हेमं च गेहेशं पिंडैरुज्झन्तमैक्षत ॥२०॥ तव भाग्योद्घाटश्लक्ष्णकर्करांगाररूपतः। पश्यतिम ततः पूर्णचंद्रः प्राहातिविस्मितः॥२१॥ किमुज्झसि महाद्रव्यं नरसंजीवनौषधम् । इत्युक्ते स गृही दध्यौ चित्तेऽहो पुण्यवानसौ ॥२२॥ वत्स द्रव्यमिदं वंशपात्रे क्षिप्त्वा ममार्पय। . इत्युक्त्वा पूरयित्वासौ पात्राण्यस्यार्पयत्तदा ॥२३॥ तत्करस्पर्शमाहात्म्यात्तद्रव्यं पश्यति स्म सः। अपुण्यपुण्ययोः साक्षादीदृशं दृश्यतेऽन्तरम् ॥२४॥ सोऽतर्गेहं क्षिपत्येवं सर्व निहितमंतरा। एका सुखासिकाहेतोः प्रसृतिस्तेन चार्थिता ॥ २५॥ हृष्टश्च पितुराख्याय ददौ तद्रविणं मुदा । वीरनागः प्रभूणां च यथावृत्तमदोऽवदत् ॥२६॥ व्यमृशंस्तेऽपि वाता|त्किमेष पुरुषोत्तमः। दर्शयंती वरूपाणि लक्ष्मीर्यस्याभिलाषुका ॥ २७॥ रंगत्कुमुदचंद्रांशुप्रसरोच्छादकोदयः । विरोचनो विनेयश्चेदेषानंतोन्नतिस्तदा ॥२८॥ ततस्तेऽप्यवदन् वाचं शृणु नस्तव यद्वरम् । वस्तु संपद्यते कस्य भक्ता तत्प्रतिपद्यते ॥ २९ ॥ स प्राह नाथ पूज्यानां कुले नो गुरुताभृताम् । अहं त्वेकसुतो जीर्णस्तदास्था मेऽत्र जीवितुम् ॥ ३०॥ व्यवसाये क्षमः कीदृक्षे पिताहं जनन्यपि । अस्य नश्यत्तनुस्थेमानन्यसूस्तद्वदामि किम् ॥ ३१ ॥ अत्र चेत्पूज्यपादानामाग्रहस्तन्मया नहि । विचारणं हि कर्तव्यं गृह्यतामेष नंदनः ॥ ३२॥ प्रभुराहाथ मे पंचशती चारित्रिणां गणे। सर्वेऽपि ते सुताः संतु न वै कस्मादतः प्रति ॥ ३३॥ ... अमी सधर्मिका यावजीवं कशिपुदास्तव। धर्म धेह्यास्त्र निश्चितः परलोकैकशंबलम् ॥ ३४॥
१P प्यवाता. २P प्रसराच्छा.