SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८० प्रभावकचरिते तदंबां च यथादेशकारिणीमनुमान्य च । पूर्णचंद्रं दृढांभक्तिं प्रभवः समदीक्षयन् ॥ ३५॥ रामचंद्राभिधां तस्य ददुरानंदनाकृतेः। दर्शनोल्लासिनः संघसिंधुवृद्धिविधायिनः ॥ ३६॥ दुर्नेयत्वकलंकस्यापनोदादुपकारिणीम् । यत्प्रजा दुर्गशास्त्राणामपि वाग्गोचरः स किम् ॥ ३७॥ तर्कलक्षणसाहित्यविद्यापारगतः स च । अभूत्स्वपरसिद्धांते वर्तमाने कषोपलः ॥ ३८॥ . शिवाद्वैतं वदन् बंधः पुरे धवलके द्विजः। काश्मीरसागरे जिग्ये वादान् सत्यपुरे पुरे ॥ ३९ ॥ तथा नागपुरे क्षुण्णो गुणचंद्रो दिगंबरः। चित्रकूटे भगवतः शिवभूताख्यया पुनः॥४०॥ गंगाधरो गोपगिरौ धारायां धरिणीधरः।। पद्माकरो द्विजः पुष्करिण्यां "वाग्मदोद्धरः॥४१॥ जितश्च भृगुक्षेत्रे कृष्णाख्यो ब्राह्मणाग्रणीः। एवं वादजयोन्मुद्रो रामचंद्रः क्षितावभूत् ॥४२॥ विद्वान् विमलचंद्रोऽथ हरिचंद्रः प्रभानिधिः। सोमचंद्रः पार्श्वचंद्रो विबुधः कुलभूषणः॥४३॥ प्राक्षः शांतिस्तथा शोकचंद्रश्चंद्रोल्लसद्यशाः। अजायंत सखायोऽस्य मेरोरिव कुलाचलाः॥४४॥ ततो योग्यं परिज्ञाय रामचंद्रं मनीषिणम्। प्रत्यष्ठिपन् पदे दत्तदेवसूरिवराभिधम् ॥४५॥ पितुस्तस्य व्रतं वीरनागाख्यस्य खसुः पुनः। पुरात्तव्रतमुद्राया अमुद्राया महाव्रतैः ॥ ४६॥ महत्तरां प्रतिष्ठां च व्यधुर्विधुरितांहसः। श्रीमञ्चंदनबालेति नामास्याः प्रददुर्मुदा॥४७॥ युग्मम् । अन्यदा गुर्वनुज्ञाताः श्रीमंतो देवसूरयः। विहारमादधुः पूज्याः पुरे धवलकाभिधे ॥४८॥ उदयो नाम तत्रास्ति विदितो धार्मिकाग्रणी। .. श्रीमत्सीमंधरस्वामिबिंबं सैष व्यधापयत् ॥ ४९॥ ... स प्रतिष्ठाविधौ तस्य निश्चिन्वन्सहरुं ततः। श्रीमच्छासनदेवीं चाराध्नोत्रयहमुपोषितः॥५०॥. युगप्रधानकल्पेन श्रीमता देवसूरिणा। . .. . प्रतिष्ठापय विबं स्खमित्युपादिशताथ सा ॥ ५१ ॥ ... १H यथाभक्तिं. २P वामम०.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy