________________
2
श्रीदेवसूरिप्रबन्धः ।
तत्तदर्थनया बिंबप्रतिष्ठां विदधुस्तदा । ऊदावतीति नाम्ना तच्चैत्यमद्यापि विद्यते ॥ ५२ ॥ अथ नागपुरेऽन्येद्युः प्रभवो विजिहीर्षवः । गिरींद्रमर्बुदं प्रापुरुक्ता आरुरुहुश्च तम् ॥ ५३ ॥ मंत्रिणोंऽबप्रसादस्य गिरिमारोहतः सह । गुरुभिः कर्मवैचित्र्यादंदशूकोऽदशत्पदे ॥ ५४ ॥ ज्ञात्वा ते प्रेषयंस्तस्य हेतुं पादोदकं तदा । धौतमात्रे तदा तेन दंशोऽसौ निर्विषोऽभवत् ॥ ५५ ॥ श्रीनाभेयं नमस्कृत्य संसारार्णवतारणम् । तुष्टुवुः श्रीमदंबां च प्रत्यक्षां शासनेश्वरीम् ॥ ५६ ॥ सावादीत्कथयिष्यामि किंचित्ते बहुमानतः । दूरे सपादलक्षे त्वमायासीन्मम वाक्यतः ॥ ५७ ॥ गुरुस्तवाष्टमासायुरस्मादेव दिनाद्यतः । व्यावर्त्तस्व ततो वेगादणहिल्लपुरं प्रति ॥ ५८ ॥
इत्याख्याय तिरोधाश्च देवी दध्यौ ततः प्रभुः । मय्यंबाया इवांबाया वत्सलत्वमहो महत् ॥ ५९ ॥ व्यावृत्यायात्ततः पूज्यपुर आख्यत्सुरीवचः । आनंदमसमं प्रापुस्ते कालज्ञानतो निजात् ॥ ६० ॥ अन्यदा देवबोधाख्यः श्रीभागवतदर्शनी । भूरिवादजयोन्मुद्रः श्रीमत्पत्तनमाययौ ॥ ६१ अवलंबनपत्रं च राजद्वारे मदोद्धुरः । तत्र श्लोकं दुरालोकं विबुधैरलिखच्च सः ॥ ६२ ॥
तथाहि
* एकद्वित्रिचतुःपंचषण्मेनकमनेनकाः । देवबोधे मयि क्रुद्धे षण्मेनकमनेन कः ॥ ६३ ॥ ततः सर्वेऽपि विद्वांस एनमालोक्य सूर्यवत् । दृशो विपरियंतिस्म दुर्बोधं सुधियामपि ॥ ६४ ॥ षण्मासांते तदा चांबा प्रसादो भूपतेः पुरः । देवसूरिप्रभुं विज्ञराजं दर्शयति स्म च ॥ ६५ ॥ स भूपालपुरः श्लोकं बिभेदोद्भेदधीनिधिः । कुलत्थजलवद्द्वंडशैलं राज्ञा मतः सुहृत् ॥ ६६ ॥ अथास्य श्लोकस्य विवरणं
૨૮૨
+
कैगैरे शब्दे । कायंतीति क्वचित् डप्रत्यये काशब्देन वादिनः । षाः संतीति क्रियाध्याहारे षड्डादिनो न संति । क्व सति देवबोधे मयि क्रुद्धे सति । पुनः
१ H. उदावसही.