________________
.२८२
. प्रभावकचरिते
कथंभूते। एकद्वित्रिचतुःपंचषण्मेनकमने मांकमाने मांतं मा क्विप् प्रमाणं एकं प्रमाणं प्रत्यक्षरूपं येषां ते एकमाः चार्वाकाः एकप्रमाणवादिनः। तथा द्विमाः द्वे प्रमाणे प्रत्यक्षानुमानरूपे येषां ते द्विमाः द्विप्रमाणवादिनो बौद्धाः वैशेषिकाच । तथा त्रिमाः त्रीणि प्रमाणानि प्रत्यक्षानुमानागमरूपाणि येषां ते त्रिमाः त्रिप्रमाणवादिनः सांख्याः। चत्वारि प्रत्यक्षानुमानागमोपमानरूपाणि प्रमाणानि येषां ते चतुर्माः चतुःप्रमाणवादिनो नैयायिकाः । तथा पंचमाः पंचप्रत्यक्षानुमानागमोपमानार्थापत्तिरूपाणि प्रमाणानि येषां ते पंचमाः पंचप्रमाणवादिनः प्रभाकराः। तथा षण्माः । तथा षट् प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि प्रमाणानि येषां ते षण्माः षट्प्रमाणवादिनो मीमांसकास्तेषामितास्ते द्वे तृवात् तान् कमते अभिलषति । स एकद्विंत्रिचतुःपंचषण्मेनकमनः तस्मिन्मयि मेनकमने नका अपि नका नवादिनः। मा लक्ष्मीस्तस्या इनः स्वामी विष्णुः कमनो ब्रह्मा इन आदित्यः मेनकमनेनाः । अल्पत्वात्कप्रत्यये मेनकमनेनकाः । तेऽपि ब्रह्मविष्णुसूर्या मयि देवबोधे क्रुद्ध सति अज्ञानत्वान्नकाः न वादिनः यतो देवान् बोधयति इति व्युत्पत्त्या तेपि मया बोधिताः सुज्ञाना भवंति । तथा मानुषाणां पटुवादिनां विदुषामपि किं प्रमाणमिति ॥
इति पत्रावलंबव्याख्याश्लोकः ॥ ग्रं० ॥ १६॥ अथास्ति बाहडो नाम धनवान् धार्मिकाग्रणीः । गुरुपादान्प्रणम्याथ चके विज्ञापनामसौ ॥६७॥ आदिश्यतामतिश्लाघ्यं कृत्यं यत्र धनं व्यये। प्रभुराहालये जैने द्रव्यस्य सफलो व्ययः॥ ६८॥ आदेशानंतरं तेनाकार्यत श्रीजिनालयम् । हेमाद्रिधवलस्तुंगो दीव्यत्कुंभमहामणिः ॥ ६९ ॥ श्रीमता वर्द्धमानस्याबीभरविंबमद्भुतम् । यत्तेजसा जिताश्चंद्रसूर्यकांतमणिप्रभाः ॥ ७० ॥ शतैकादशके साष्टसप्ततौ विक्रमार्कतः । वत्सराणां व्यतिक्रांते श्रीमुनिचंद्रसूरयः॥ ७१ ॥ आराधनाविधिश्रेष्ठं कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोलप्लुतोऽसौ त्रिदिवं ययौ ॥ ७२ ॥ युग्मम् ॥ वत्सरे तत्र चैकत्र पूर्णे श्रीदेवसूरिभिः । श्रीवीरस्य प्रतिष्ठां स बाहडोऽकारयन्मुदा ॥७३॥ अथ नागपुरे श्रीमान् देवरिप्रभुर्ययौ। अभ्यागादत्र च श्रीमानाह्लादननरेश्वरः ॥ ७४ ॥