SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसूरिप्रबन्धः। .. . प्रणनाम तदायातः स च भागवतेश्वरः। देववोध इमामार्यामार्याचारोऽवदत्प्रभुः॥ ७५॥ सा चेयं-योवादिनो द्विजिह्वान् साटोपं विषममानमुद्रितः।। शमयति स देवसूरिनरेंद्रवंद्यः कथं न स्यात् ॥ ७६ ॥ . एवं चासौ महाभक्त्या स्थापितो नगरांतरा। राज्ञा विज्ञाततत्वार्थों भव्यान् बोधयति स्म सः॥ ७७॥ तञ्च श्रीसिद्धराजोऽथ नगरं रुरुधेतराम्। . तत्रस्थं देवसूरिं च ज्ञात्वाद्याववृते ततः॥ ७८॥ मध्यस्थितेऽत्र तन्मित्र दुर्ग लातुं न शक्यते । इति ध्यात्वाह्वयद्भक्त्या नृपः श्रीपत्तने प्रभुम् ॥ ७९ ॥ तत्र वर्षाखवस्थाप्याश्चित्ते तं चाभ्यमित्रयत् । प्राकारं जगृहे श्रीमान् सिद्धराजश्च सत्वरम् ॥ ८०॥ अथ कर्णावतीसंघोऽन्येधुरुत्कंठितः प्रभोः। आह्वाययन्महाभत्त्याचतुर्मासकहेतवे ॥ ८१॥ ततस्तत्राययुः पूज्याः संघादेशपुरस्कृताः। . सिद्धोपाश्रयमासाद्यावस्थानं प्रतिशुश्रुवुः ॥ ८२॥ अरिष्टनेमिप्रासादे व्याख्यानं च प्रतुष्टुवुः । अबुध्यताबुधा लोका यस्य श्रवणतो घनाः ॥८३॥ इतश्च दाक्षिणात्यः श्रीकर्नाटनृपतेर्गुरुः । श्रीजयकेशिदेवस्य श्रीसिद्धेशप्रसूपितुः॥ ८४ ॥ अनेकवादिनिर्जिष्णुर्वादिपुत्रकपद्धतिम् । वामपादे वहन् गर्वपर्वताधित्यकाश्रितः॥ ८५ ॥ जैनो जैनमतद्वेषिदर्पसर्पकरंडिका। श्रीमान् कुमुदचंद्राख्यो वादिचक्री दिगंबरः ॥ ८६ ॥ श्रीवासुपूज्यचैत्यस्थो वर्षानिर्वाहहेतवे । श्रीदेवसूरिधर्माख्या प्रभावामर्षणस्तदा ॥ ८७ ॥ श्रितान् मुखरयन् बंदिवृंदानि प्रजिघाय सः। . उद्दीपयन्वचोभिस्तं सूरिं शमिकुलेश्वरम् ॥ ८८ ॥ पंचभिः कुलकम् ॥ वैतालिकपतिर्धम्मिपर्षदंतः प्रविश्य च। आह स्तुतिपरस्तस्य काव्यानि क्रोधदीप्तये ॥ ८९॥ गेहं वाङ्मययोः पारदृश्वरी प्रेक्षयन्मतिम् । वीणापुस्तकभृद्राह्मी विस्मिता वेदपारगा ॥९०॥ १ H. शुद्धो
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy