________________
२८४
प्रभावकचरिते
ततस्तब्रह्ममास्थाय तदुपास्तितरास्तिकाः।
सितांबराः परानंदभाजो भवत किं न हि ॥ ९१ ॥ तथाहि-हहो श्वेतपटाः किमेष विकटाटोपोक्तिसंटंकितैः
संसारावटकोटरेऽतिविषमे मुग्धो जनः पात्यते । तत्वातत्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचंद्रमंहियुगलं रात्रिंदिवं ध्यायत ॥९२ ॥ अथाह देवसूरीणां माणिक्याख्यो विनेयराट् ।
दर्शनप्रतिकूलाभिर्वाग्भी रोषांकुरं वहन् ॥ ९३॥ तद्यथा-कः कंठीरवकंठकेसरसटाभारं स्पृशत्यहिणा
कः कुंतेन शितेन नेत्रकुहरे कंडूयनं कांक्षति । कः सन्नाति पन्नगेश्वरशिरोरत्नावतंसश्रिये यः श्वेतांबरदर्शनस्य कुरुते वंद्यस्य निंदामिमाम् ॥ ९४ ॥ माणिक्यः शिष्यमाणिक्यं जगदे देवसूरिभिः । नात्र कोपावकाशोऽस्ति खरवादिनि दुर्जने ॥ ९५॥ अथ बंदिराज आह श्वेतांबर चणकतुरग इह वादी । श्वेतांबरतमसोर्कश्वेतांबरमशकधूमोऽयम् ॥९६॥ श्वेताम्बरः प्रहसनैः सूत्रधारः प्रभुः कुमुदचंद्रः। किं वाच्यस्तव वाचा संदिश किमिहान्यवागडंबरैः॥९७। स गुरुः प्राह नाहयुर्वतमस्माकदर्शने । ततः कथय मद्भातुः पुर एकं हि वाचिकम् ॥ ९८॥ दिगम्बरशिरोमणेर्गुणपराङ्मुखे मास्मभूगुणग्रहफलं हि तद्वसति यद्रमापंकजे । ततस्त्यज मदं कुरु प्रशमसंयतान्स्वान्गुणान् दमो हि मुनिभूषणं स च भवेन्मदव्यत्यये ॥ ९९ ॥ इत्येवं कथिते बंदिवरेणास्य पुरो मुनेः । वादिनः सोऽवदन्मूर्ख साधूनां शम उत्तरम् ॥ १०० ॥ उत्तेजनं किमप्येष क्रियते चित्तपीडनम् । अस्य विद्याकलामध्यं ज्ञायते येन तत्त्वतः॥१०१॥ विमृश्येति निजैः साधुवृंदं रथ्यांतरागतम् । वैरानुबंधचेष्टाभिरुपासर्जयदद्भुतम् ॥ १०२ ॥ इत्येवमुपस्पृष्टेत्र निःप्रकंपे सुमेरुवत् । दिग्वासा निजरूपाभमविशिष्टं प्रचक्रमे ॥ १०३ ॥ निजचैत्याग्रतो यांती वृद्धां गोचरचर्यया । उपसर्गयितुं साध्वीमारेभेऽन्येधुरुद्यतः ॥ १०४॥