________________
श्रीदेवसूरिप्रबन्धः ।
२८५
अथ पल्लवकान् पल्लवकानिव नभस्तरोः। प्रेष्यतां कुंडके क्षिप्त्वा नर्तयामास साहसी ॥१०५ ॥ अहो साध्वीमसौ वृद्धां दर्शनिव्याजबुक्कसः। .. विडंबयति पापीति तस्या वर्णो जनेऽभवत् ॥ १०६॥ अथ सा मोचिता कैश्चिदनुकंपापरैर्नरैः। सूरेरुपाश्रयं प्रायादतिगद्गदशब्दभूः ॥ १०७॥ . किं कृतस्तेऽपमानोऽयमिति पृष्टा च सूरिभिः । जरामन्युभराव्यक्तस्वरं प्राह तदग्रतः ॥ १०८॥ वर्द्धितोऽध्यापितः सूरिपदे महुरुभिर्भवान् । स्थापितोऽस्सादृशामीहर विडंबनकृते ध्रुवम् ॥ १०९ ॥ दिगंबरोऽयं बीभत्सदर्शनः स्वविटवजैः। राजाध्वनि प्रयांतीं मामनाथवदुपाद्रवत् ॥ ११०॥ विद्वत्तया प्रभुत्वेन किं फलं तेऽवकाशिना। किं करस्थेन शस्त्रेण यदि शत्रुर्न हन्यते ॥ १११॥ शमशैत्यमहावल्याः फलं परिभवो दृढः। ग्रस्यते मुच्यते वापि राहुणा स्वेच्छया शशी ॥११२॥ अद्यते विक्रमे कालः पठितस्य फलं ह्यदः। धान्ये शुष्के धने चास्ते वर्षन् मेघः करोतु किम् ॥ ११३ ॥ देवसूरिरथो वाचमुवाच क्रोधदुर्द्धरम् । मा विषादं कुरुष्वायें दुर्विनीतः पतिष्यति ॥ ११४॥ आर्याह दुर्विनीतोऽयं पतिष्यति नवा पुनः। ... त्वयि न्यस्तभरः संघः पतिष्यत्येव वेत्रवत् ॥११५॥ प्रभुराह स्थिरीभूय चेद्विलोकयसे ततः। ... मुक्तानामिह वेधो नः संभवीगुणयुक्तयोः॥११६ ॥ अथ चोवाच माणिक्यविज्ञप्ति लिख मामिकाम् । श्रीमत्पत्तनसंघाय विनयातिशयस्पृशम् ॥ ११७ ॥ आदेशानंतरं सोऽथ लिखति स्म स्फुटाक्षरम् । अदर्शयत्प्रभोः पश्चादथासौ प्रत्यवाचयत् ॥११८॥ स्वस्ति नत्वा जिनं श्रीमदणहिल्लपुरे प्रभुम् । संघं कर्णावतीपुर्याः श्रीमंतो देवसूरयः ॥ ११९ ॥ भक्त्या विज्ञपयंत्यत्राशांबरेण विवादिना। शीघ्रमेवागमिष्यामः कृतवादाश्रवा इति ॥ १२० ॥ अचिराध्वन्यपुंसश्च हस्ते साथ समर्पिता। गूर्जराणां राजधानी स प्राप प्रहरत्रयात् ॥ १२१ ॥