________________
२८६
प्रभावकचरिते दृष्टवा संघेन मोऽसौ भोजनाच्छादनादिभिः । सम्मान्य प्रहितः शीघ्र प्रतिलेखं समर्प्य च ॥ १२२॥ आयादेवगुरोः पाखें संघादेशं ददौ मुदा । एनं ललाटे विन्यस्य विवृत्यावाचयञ्च सः॥ १२३ ॥ स्वस्ति श्रीतीर्थनेतारं नत्वा श्रीपत्तनात्प्रभुः। संघः कर्णावतीपुर्या परवादिजयोर्जितम् ॥ १२४ ॥ श्रीदेवोपपदं सूरिं समादिशति सम्मदात् । आगंतव्यं झटित्येव भवता वादिपुंगव ॥ १२५॥ किंच श्रीवादिवेताल शांत्याचार्यस्य सहुरोः। पार्श्वेऽधीतस्य शैवाख्यवादिजेतुर्महात्मनः ॥ १२६ ॥ मुनिचंद्रप्रभोः किन भवान् शिष्यशिरोमणिः। कालेऽधुनातने संघोदयस्त्वय्येव तिष्ठति ॥ १२७॥ ततः श्रीसिद्धभूपालं विज्ञप्यात्र सकौतुकम् । त्वत्कृतं विजयं स्वस्य वयं वीक्ष्यामहे ध्रुवम् ॥ १२८॥ श्राद्धानां श्राविकाणां च शतानि त्रीणि सप्त च । विजयाय तव श्रीमन्नाचामाम्लानि वितन्वते ॥१२९ ॥ प्रतिहन्तुं प्रत्यनीकसुराणां वैभवं लघुम् ।। देव्याः श्रीशासनेश्वर्या बलं दातुं स तत्वतः ॥ १३०॥ तदर्थमिति विज्ञाय विश्ववंद्यः स बंदिनम् । प्राहिणोद्वादिने धीमान् शिक्षयित्वा खवाचिकम् ॥ १३१.॥ स गत्वा चाह वादीन्द्रो देवाचार्यो वदत्यदः । मन्मुखेन व्रजन्नस्मि पत्तनेऽहं त्वमापतेः॥१३२॥ सभायां सिद्धराजस्य पश्यतां तत्सभासदाः। स्वपराभ्यस्तवाणीनां प्रमाणं लभ्यते यथा ॥१३३॥ भवत्वेवमिति प्रोचे स दिगंबरसंनिधौ। गत्वा प्रोवाच तत्सर्व श्रुतं तेनावधानतः ॥१३४ ॥ गमिष्यत इति प्रोक्ते वादिनाऽजायत क्षुतम् । तत्तस्याशकुनं मत्वा समेत्याकथयगुरोः॥१३५ ॥ ततः सूरिदिने शुद्ध मेषलग्ने रवौ स्थिते। सप्तमस्थे शशांके च षष्ठे राही रिपुद्रुहि ॥ १३६ ॥ प्रयाणं कुर्वतस्तस्य निमित्तं शकुनाः शुभाः। स्फुरितं दक्षिणेनाक्षणा शिरःस्पंदोऽप्यभूद्धशम् ॥ १३७ ॥ किकीदिविदृशो मार्गमाययौ चंद्रकी व्यरौत् ।
मृगाः प्रदक्षिणं जग्मुर्विषमा विषमच्छिदः ॥ १३८ ॥ १H. तत्वते?