________________
श्रीदेवसूरिप्रबन्धः। तथा रथः प्रभोस्तीर्थनाथस्याभ्यर्चितो जनैः। अभ्यर्हितप्रतिमया बभूवाभिमुखस्तथा ॥१३९॥ इत्यादिभिर्निमित्तैश्च मतः सौष्ठवमाश्रितः। अक्षेपात्पत्तनं प्राप प्राप्तरूपेश्वरः प्रभुः ॥१४०॥ प्रवेशोत्सवमाधत्त संघ उत्कंठितस्ततः। तत्र सिद्धाधिपं भूपमपश्यञ्च क्षणे शुभे ॥ १४१ ॥ पुनश्च मागधाधीशो दिगंबरपुरोगतः। प्राह स्फुटं वचोभिः श्रीदेवाचार्यस्य वाचिकम् ॥ १४२॥ मदं मुंच यतः पुंसां दत्तेऽसौ व्यसनं महत् । शलाकापुरुषस्यापि दशास्यस्य यथा पुरा ॥१४३॥ एवमुक्त्वा स्थिते वैतालिके दिग्वसनोऽवदत् । श्वेतांबराः कथाभिज्ञा एषामेतद्धि जीवितम् ॥ १४४॥ अहं तु तत्कथाभीतः प्रीतो वादेन केवलम् । येन स्वस्य परस्यापि प्रमाणं हि प्रतीयते ॥ १४५॥ एवमेवोचितं तेन जल्पितं तपाग्रतः।। संगम्य वादमुद्रायां तदेतक्रियतां ध्रुवम् ॥ १४६ ॥ तत्र गच्छाम शीघ्रं च वयमप्यद्य निश्चितम् । प्रेस्थास्तवस्तदित्युक्त्वा रुरोह च सुखासनम् ॥ १४७॥ संमुखं पुनरासीञ्च क्षुतं व्यमृशदत्र च। विकारः श्लेष्मणः शब्दस्तत्रास्था कास्तु मादृशाम् ॥१४८॥ स्याद्वा ततोऽपि कंडूतिर्जिह्वायामेतरेण न । प्रतिहन्येत वादेन क्षुतमस्मानिषेधकम् ॥ १४९॥ याम एव तथाप्येवमुक्त्वा संचरतः सतः। अवातरत्फणी श्यामः कालरात्रेः कटाक्षवत् ॥ १५०॥ व्यलंबत परीवारस्तस्याशकुनसंभ्रमात् । आह च स्वामिनो नैव कुशलं दृश्यते ह्यदः ॥१५१ ॥ स प्राह पार्श्वनाथस्य तीर्थाधिष्ठायको मम । धरणेद्रो ददौ दर्श साहाय्यविधये ध्रुवम् ॥ १५२ ॥ इत्याद्यशकुनै ढं निषिद्धोऽपि दिगंबरः। अणहिल्लपुरं प्राप तथा प्रावेशिकैरपि ॥ १५३॥ इतश्च श्रीदेवसूरेः पुरं प्रविशतः सतः। थाहडो नागदेवश्चाययाते संमुखौ तदा ॥ १५४ ॥ . ताभ्यां प्रणम्य विज्ञप्तं दिगंबरपराजये। . दाप्यतां स्वेच्छया द्रव्यमेतदर्थ तदर्जितम् ॥१५५॥
१P कथातीतप्रीतो. २ P प्रस्तास्तव.