________________
२८८
प्रभावकचरिते श्रीदेवसूरयः प्राहुर्यदि ब्राह्मीप्रसादतः। न जयस्तत्किमुत्कोचैः संकोचैः सत्यसंविदाम् ॥ १५६ ॥ अथाह थाहडो नाथ शांबरेण धनव्ययात् । तत्रस्थेन धनाध्यक्षादशिता गांगिलादयः ॥ १५७ ॥ ऊचुश्च प्रभवो देवा गुरवश्चात्र जाग्रति ।। कार्योऽन्वयो न युष्माभिरस्थाने द्रविणस्य तत् ॥ १५८ ॥ ततः कुमुदचंद्रेणागतेन नगरांतरा। श्वेतांबरजयोन्नत्यै कृतं पत्रावलंबनम् ॥ १५९ ॥ दिनानां विशति प्रत्युपाश्रयं यतिनां तदा। नीरं तृणानि मुक्त्वा च सपुरोगान्यवादयत् ॥ १६०॥ केशवत्रितयं तस्य पक्षे सभ्यतया स्थितम् । अन्येऽप्यर्वाग्दशः सर्वे तस्य पक्षस्पृशोऽभवन् ॥ १६१ ॥ थाहडस्तस्य तत्रत्यं राजद्वारे विलंबितम् । स्फाटयामास शृंगारमिव तस्य जयश्रियः॥१६२॥ श्रीसिद्धाधीश्वरो राजा श्रीपालादधिगम्य च । वृत्तांतमाह्वयत्तत्र श्वेतांबरदिगंबरौ ॥ १६३ ॥ सभाव्यवस्थामाधाय प्रैषीदूतं च सत्वरम् । संबंधकावताराय तयोगौगिलमंत्रिणे ॥ १६४॥ ततः श्रीकरणे सोऽथ श्रीदेवगुरुराह्वयत् ।
जातिप्रत्ययतः किंचिद्विशिष्टमिव चावदत् ॥ १६५ ॥ तथाहि-दंतानां मलमंडलीपरिचयात्स्थूलं भविष्णुस्तुति
श्रुत्वा भैक्षकपिंडभक्षणविधिं शौचं किलात्रात्मनः। नीरं साक्षिशरीरशुद्धिविषये येषामहो कौतुके तेऽपि श्वेतपटाः किमीश्वरपुरः कांक्षति जल्पोत्सवम् ॥१६६ आह देवगुरुः स्फूर्त्या मीमांसासक्तताजुषः।
धीवराश्वोचितं तद्वः शौचाचारविचारणम् ॥ १६७ ।। परमुक्तं च-विमृशविमृशांभोभिः शक्योऽपसारयितुं नये
र्जठरपिठरीक्रोडस्थेमाप्यहो मललेशकः। कथमिव सदा तिष्ठन्नात्मन्यरूपिणि तैरहो परिदलयितुं पार्यो नार्यः स पातककर्दमः ॥ १६८ ॥ माणिक्यः प्राह किनाम द्विजस्यास्यास्ति दूषणम् । श्रीसिद्धेश उपालभ्यः सविवेकबृहस्पतिः ॥१६९ ॥ संस्कारे सूत्रपालेन चतुर्दाहृदयात्मनाम्। वपुमेनोवचःकायं जनेष्वन्यान्यरूपतः॥१७०॥ १P लावाम्लतः H. चात्मत् ?